Book Title: Bhaktamarstava Sukhbodhika Vrutti Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 6
________________ डिसेम्बर-२००९ दीप: ? निर्धूमवर्त्तिः । धूमश्च वर्त्तिश्च धूमवर्त्ती । निर्गतौ धूमवर्त्ती यस्मात् स निर्धूमवर्त्तिः, धूमकालुष्यं वर्त्तिः - कामदश (शा) - ताभ्यां रहितः इत्यर्थः । पुनः कथम्भूतः त्वं दीपः ? अपवज्जिततैलपूरः । अपवज्जितं तैलपूरं यस्मात् स अपवज्जिततैलपूरः । कथम्भूतः त्वं दीप: ? कृत्स्नं-समस्तं जगत्त्रयं प्रग (क) टीकरोषि ? पुनः कथम्भूतः त्वं दीपः ? जगत्प्रकाशः । जगति प्रकाशो यस्य स जगत्प्रकाशः ॥१६॥ २९ नास्तमिति ॥ हे मुनीन्द्र ! मुनीनां इन्द्रः मुनीन्द्रः, तत्सम्बोधनं क्रियते हे मुनीन्द्र ! । लोके त्वं सूर्यातिशायिमहिमाऽसि । सूर्यात् अतिशायी महिमा महात्म(त्म्यं) यस्य स सूर्यातिशायिमहिमा, तदेव दर्शयति । त्वं कदाचित् अस्तं न उपयासि न प्राप्नोषि । पुनः त्वं राहुगम्यः न ऽसि । हे स्वामिन् ! पुनः त्वं सहसा - शीघ्रं युगपत् - समकालं जगन्ति विश्वानि स्पष्टीकरोषि प्रकटीकरोषीत्यर्थः । पुनः त्वं अम्भोधरोदरनिरुद्धमहाप्रभावः न । अम्भोधराणां उदरं अम्भोधरोदरम्, अम्भोधरोदरेण निरुद्धो महाप्रभावो यस्य स अम्भोधरोदरनिरुद्धमहाप्रभावः । मेघमध्यावृतमहातेजा न वर्त्तासो (वर्तसे) ॥१७॥ नित्यो० इति । हे स्वामिन् ! तव मुखाब्जं - मुखकमलं अपूर्वशशाङ्कबिम्बम् । विभ्राजते- शोभते, मुखं अब्जं मुखाब्जं, अपूर्वं च तत् शशाङ्कबिम्बं मुखाब्जं, किं कुर्वन् ?, जगद्विद्योतयत् - प्रकाशयत् । कथम्भूतं मुखाब्जं ?, नित्योदयं-नित्यं-सर्वदा उदयो यस्य तत् नित्योदयम् । पुन- कथम्भूतं मुखाब्जं ? दलितमोहमहान्धकारं-दलितं - दूरीकृतं मोहमहान्धकारं । अथवा मोहस्य महान्धकारं मोहमहान्धकारं दलितं । पुनः कथम्भूतं मुखाब्जं ? राहुवदनस्य गम्यो न, राहोर्वदनं राहुवदनं तस्य । पुनः कथम्भूतं मुखाब्जं ? वारिदानां - मेघानां न गम्यम् । पुनः किंविशिष्टं ? अनल्पकान्ति न अल्पा अनल्पा कान्तिर्यस्य तत् ॥१८॥ किमिति ॥ हे नाथ ! तमस्सु - अन्धकारेषु । युष्मन्मुखेन्दुदलितेषु सत्सु, शर्वरीषु शशिना किं ? वा - ऽथवा, ऽह्नि दिवसे विवस्वता - सूर्येण किम् ? | युष्माकं मुखं युष्मन्मुखं युष्मन्मुखं एव इन्दुः युष्मन्मुखेन्दुः । तेन दलितानि युष्मन्मुखेन्दुदलितानि तेषु । उक्तमर्थं मर्थान्तरन्यासेन द्रढयति जीवलोके विश्वे निष्पन्नशालिवनशालिनि सति जलधरैः - मेघैः कियत् कार्यं ? । निष्पन्नानि -Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13