Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 3
________________ ॥ अथ अष्टमशतकम् ॥ पूर्व पुद्गलादयो भावाः प्ररूपिता इहापि त एव प्रकारान्तरेण प्ररूप्यन्त इत्येवं संबद्धमथाष्टमशतं विवियते, तस्य चोद्देशसङ्ग्रहार्थं 'पुग्गले'त्यादिगाथामाह पोग्गल १ आसीविस २ रुक्ख ३ किरिय ४ आजीव ५ फासुग ६ मदते ७। पडिणीय ८ बंध ९ आराहणा य १० दस अट्ठमंमि सए ॥१॥ रायगिहे जाव एवं वयासी-कइविहा णं भंते ! पोग्गला पन्नत्ता ?, गोयमा तिविहा पोग्गला पन्नत्ता, |तंजहा-पओगपरिणया मीससापरिणया वीससापरिणया । (सूत्रं ३०९)॥ | 'पोग्गल'त्ति पुद्गलपरिणामार्थः प्रथम उद्देशकः पुद्गल एवोच्यते एवमन्यत्रापि १, 'आसीविसत्ति आशीविषादिविषयो द्वितीयः २ 'रुक्ख'त्ति सङ्ख्यातजीवादिवृक्षविषयस्तृतीयः ३ 'किरिय'त्ति कायिक्यादिक्रियाभिधानार्थश्चतुर्थः ४ 'आजीवत्ति आजीविकवक्तव्यतार्थः पञ्चमः ५ 'फासुग'त्ति प्रासुकदानादिविषयः षष्ठः ६ 'अदत्ते'त्ति अदत्तादानवि|चारणार्थः सप्तमः ७ 'पडिणीय'त्ति गुरुप्रत्यनीकाद्यर्थप्ररूपणार्थोऽष्टमः ८'बंध'त्ति प्रयोगबन्धाद्यभिधानार्थो नवमः ९ 'आराहण'त्ति देशाराधनाद्यर्थो दशमः १०॥'पओगपरिणय'त्ति जीवव्यापारेण शरीरादितया परिणताः 'मीससा-| |परिणय'त्ति मिश्रकपरिणताः-प्रयोगविनसाभ्यां परिणताः प्रयोगपरिणाममत्यजन्तो विस्रसया स्वभावान्तरमापादिता| dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 664