Book Title: Balmanorama Author(s): Publisher: View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मद्धयमः स्यात्परिहासे गम्यमाने / मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् / 2164 / अस्मद्युत्तमः। (1-4-107) तथाभूतेऽस्मद्युत्तमः स्यात् / 2165 / शेषे प्रथमः। (1-4-108) मद्धयमोत्तमयोरविषये प्रथम: स्यात् / 'भू 1 सत्तायाम' / कर्तृविवक्षायां भू ति इति स्थिते / 2166 / तिशित्सार्वधातुकम् / (3-4-113) तिङ: शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः / 2167 / करि शप् / (3-1-68) कञर्थे सार्वधातुके परे धातोः शप्स्यात् / शपावितौ / धाताविति विशेष्यं लभ्यते / तदाह / मन्यधातुरित्यादिना / तस्मिन् प्रकृतिभूते सतीति // तस्माद्धातोलस्य स्थाने इत्यर्थः / मद्ध्यमस्स्यादिति // अस्मद्युपपद इति शेषः / अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः / एवञ्च उत्तमपुरुषापवादोऽयं मद्धयमविधिः / मन्यतेरुत्तम एकवच्चेति द्वितीयं वाक्यम् / तद्व्याचष्टे। मन्यतेस्तूत्तमस्स्यादिति // युष्मद्युपपद इति शेषः / पूर्वसूत्रात्तदनुवृत्तेः / सचेति // सः मन्यतेरुत्तमपुरुषः द्वित्वबहुत्वयोरपि एकवचनं लभत इत्यर्थः / मद्धयमोत्तमयोर्व्यत्यासार्थमिदम् / एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति / अस्मद्यत्तम इति।तथाभूत इति॥तिवाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमाने चेत्यर्थः। शेष इति॥ उक्तान्मयमोत्तमविषयादन्यश्शेषः। तदाह। मद्धयमोत्तमयोरावषय इति। त्वम् अहञ्च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव / न तु मद्धथमः / देवदत्तस्त्वञ्च पचथ इत्यत्रापि न प्रथमपुरुषः / युष्मदस्सत्वेन शेषत्वाभावादित्यलम् / भूसत्तायामिति // वर्तत इति शेषः / भ्वादिगणे प्रथमो धातुरयम् / तत्र भू इत्येव गणे पाठः / अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते / यद्यपि सत्ता जातिः न क्रिया। तथापि आत्मधारणं सत्तेत्युच्यते। खरूपेणावस्थानमिति यावत् / कर्तृविवक्षायामिति // वर्तमानसत्तावृत्तेर्भूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिवादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति भूति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः // तत्र सार्वधातुककार्य वक्ष्यन् सार्वधातुकसंज्ञामाह / तिङशिदिति॥ धातोरित्यधिकृतम् / तदाह / धात्वधिकारोक्ता इति। तेन हरीनित्यत्र शसस्सार्वधातुकत्वंन / अन्यथा तिड्शित्सार्वधातुकमिति शसस्सार्वधातुकत्वात् सार्वधातुकमपिदिति ङित्वे घेर्डितीति गुणः स्यात् / कर्तरीति ॥सार्वधातुके यगित्यस्मात् सार्वधा For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 803