Book Title: Balmanorama Author(s): Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम] बालमनोरमा 2157 / अनुदात्तङित आत्मनेपदम् / (1-3-12) अनुदात्तेत उपदेशे योङित्तदन्ताच्च धातोर्लस्य स्थान आत्मनेपदं स्यात् / 2158 / स्वरितजितः कर्चभिप्राये क्रियाफले / (1-3-78) स्वारतेतो भितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले / 2159 / शेषात्कर्तरि परस्मैपदम् / (1-3-79) आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् / नियमात / पर्यवस्यति / अथ कस्माद्धातोः परस्मैपदम् कस्मादात्मनेपदमित्याकांक्षायामाह / अनुदात्तेति // अनुदात्तश्च इच अनुदात्तडी / ताविती यस्य सः अनुदात्तडित / तस्मात् अनुदात्तडितः। द्वन्द्वान्ते श्रूयमाणं इच्छब्दः प्रत्येकं सम्बद्धयते। अनुदात्तेतः डितश्चेति लभ्यते। उपदेशेऽजनुनासिक इदित्यम्मात् मण्डूकप्लुत्या उपदेश इत्यनुवृत्तम् ङित इत्यनेन सम्बध्यते / नत्वनुदात्त इत्यनेन / उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाव्यभिचारात् / भूवादयो धातव इत्यस्मान्मण्डूकप्लुत्या धातव इत्यनुवृत्तम् पञ्चम्या विपरिणतम् अनुदात्तेता डिता च विशेष्यते / तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाभावात् डिदंशे तदन्तविधिः / तदाह / अनुदात्तेत इत्यादिना। लस्यस्थान इति // आत्मनेपदग्रहणलभ्यमिदम् / तिङ लादेश उपदेशे किम् / चुकुटिषति। अत्र गाङ्कुटादिभ्य इति सन आतिदेशिकमव डित्वम्। नत्वौपदेशिकम्। धातोः किम् / अदुद्रुवत् / अत्र णिश्रीति चङन्तानात्मनेपदम् / डिदंशे तदन्तविद्धयभावे तु चोभूयत इत्यादी सनाद्यन्ता इति धातुसंज्ञकात् यङन्तादात्मनेपदं न स्यात् / डित इत्येवोक्तो तु यङो डित्वेऽपि तदन्तस्य धातोर्डित्वाभावादात्मनेपदं न स्यात् / स्वरितभित इति // खरितश्च ञ् च स्वरितत्रौ तो इतो यस्य तस्मादिति बहुव्रीहिः। इच्छब्दःप्रत्येकं सम्बध्यते / तदाह। स्वरितेतो जितश्चेति ॥धातोरित्यनन्तरं लस्य स्थान इति शेषः / कर्तारमभिप्रेति गच्छतीति कभिप्रायम् / कर्मण्यण् / तदाह / कर्तृगामिनीति // एवञ्च होता याज्यया यजतीत्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाभावात् नात्मनेपदम् / तथा वेतनेन यज्ञदत्तभृतोदेवदत्तः पचतीत्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाभावानात्मनेपदम् / दक्षिणादिलाभस्तु न फलम् / लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिः तस्यैवात्र कियाफलशब्देन विवक्षितत्वात् / कर्तृगामिफलकक्रियावृत्तेधीतोरित्यर्थः / आत्मनेपदन्तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् / शेषात्कर्तरीति // अनुदात्तडित इति स्वरितजित इति चोक्तात् आत्मनेपद विषयादन्यश्शेषः / तदाह / आत्मनेपदनिमित्तहीनादिति // अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् / तत्र तिबादिनवके युगपत् पर्यायेण एकद्विवादिकतिपयरूपेण वा प्राप्ते युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मद्धयमः / अस्मद्युत्तमः / शेषे प्रथमः / इति व्यवस्था For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 803