Book Title: Avashyakaniryuktidipika Part_1 Author(s): Manekyashekharsuri Publisher: Vijaydansuri Jain Granthmala Surat View full book textPage 4
________________ आवश्यक निर्युक्त दीपिका ॥ ॥ १ ॥ Jain Education Internal स्तुतिः द्विधा प्रणामरूपा, असाधारण गुणोत्कीर्तनरूपा च । तत्र आद्याऽनुक्ताऽपि सामर्थ्येन ज्ञायते, कथं ? य इहग्गुणवान् तं नमामि इति । द्वितीया द्विधा स्वार्थसंपदभिधात्री, परार्थसम्पदभिधात्री च । स्वार्थसम्पन्नो हि परार्थं प्रति समर्थः स्यादिति प्राक् तामाह-जयति, इन्द्रियादीनां जयात्, को असावित्याह जगज्जीवयोनिविज्ञायकः जगद्धर्माधर्माकाशपुद्गलास्तिकायकालरूपं । जीवा : स्थावराद्याः, योनयो जीवोत्पत्तिस्थानानि ताः सचिताद्या बहुविधाः तासां विज्ञायको विशेषेण ज्ञाता सर्वज्ञ इत्यर्थः । जगद् गुणाति इति जगद्गुरुः यथास्थितसर्वार्थवक्ता इत्यर्थः । एवं ज्ञानवाक्सामर्थ्याभ्याम् स्वार्थसम्पदुक्ता । जगत् संज्ञिपश्चेन्द्रियरूपं तस्य धर्मदेशनादिनाऽऽनन्दहेतुत्वाञ्जगदानन्दः, जगतश्चराचररूपस्य यथास्थस्वरूपप्ररूपण लाभेनाऽलीकप्ररूपणापायनिरासेन च योगक्षेमकृत्त्वात् नाथो जगन्नाथः । तत्र अलब्धलाभो योगः लब्धस्य परिरक्षणं क्षेमः । जगतः सर्वजीवरूपस्य सुखकृत्त्वाद्वन्धुः, तथा जयति सर्वोत्कर्षेण वर्त्तते, नगतो भव्यलोकस्य पालनात् पिता धर्मस्तस्याऽपि जनकत्वात्पितामहो जगत्पितामहः । एवं परार्थसंपदपि उक्ता । भगवान् परमैश्वर्यवच्त्वेन स्वार्थपरार्थ - सम्पन्नोऽन् ॥ १ ॥ अथ आसन्नोपकारिश्रीवीरस्तुतिः ॥ 'जयइ ' - अर्हत्स्तुतिः जयइ सुआणं भवो, तित्थयराणं अपच्छिमो जयइ । जय गुरू लोगाणं, जयइ महत्पा महावीरो ॥ २॥ श्रुतानां सुशास्त्राणां प्रभव उत्पत्तिस्थानं वर्तमानश्रुतस्यार्थतः श्रीवीरोक्तत्वात्, तीर्थकराणां मध्ये न विद्यते पश्चिमो यस्मात् ॥ १ ॥ www.jainelibrary.org For Private & Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 460