Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 7
________________ श्रावकजना एव सुस्वरतयाऽऽसक्ततया च जिनगुणगायित्वेन मधुकर्य इव ताभिः परिवृतस्य, जिन एव सूरः सूर्य: तस्य देशनारूपेण तेजसा बुद्धस्य संघपद्मस्य, भद्रं, श्रमणानां गण एव सहस्रं पत्राणां यस्मिन् तस्य ॥ ८ ॥ तव' तवसंजममयलंछण, अकिरियराहुमुहदुद्धरिस निच्चं । जय संघचंद ! निम्मलसम्मतविसुद्धजोण्डागा! ॥९॥ तपःप्रधानः संयम एव मृगरूपं लाञ्छनं यस्य तस्यावानम् , अक्रिया नास्तिका एव राहुमुखानि तैः दुधृष्य अनभिभवनीय ! हे सङ्घचन्द्र ! नित्यं जय, निर्मलं निरतिचारं सम्यक्त्वमेव विशुद्धाऽभ्रादिमुक्ता ज्योत्स्ना यस्य तस्य आह्वानं हे सम्पत्वविशुद्धज्योत्स्नाक! ॥९॥ 'पर'परतित्थियगहपहनासगस्स, तवतेयदित्तलेस्स । नाणुज्जोयस्स जए, भदं दमसंघसूरस्स ॥१०॥ ___ परतीर्थिका एव ग्रहाः तेषां प्रभाया नाशकस्य, तपस्तेज एव दीप्ता लेश्या प्रभा यस्य, ज्ञानमेव उद्योतो यस्य तस्य, 'जए' जगति, दमः शमस्तत्प्रधानः संघ एव सूर्यः तस्य भद्रं अस्तु ॥ १० ॥ भई'भदं धिइवेलापरिगयस्स, सज्झायजोगमगरस्स । अक्खोहस्स भगवओ, संघसमुद्दस्स रुंदस्स ।११। धृतिः चारित्रोत्साहः सैव वेला जलवृद्धिः तस्य । परिगतस्य व्याप्तस्य, स्वाध्याययोग एव कर्मदारणकृत् (कृत्त्वात् ) मकरो यत्र तस्य, अक्षोभस्य, भगवतो महात्म्यवतः, संघसमुद्रस्य 'रुदस्स' विस्तीर्णस्य भद्रं ॥ ११॥ 'सम्म' Jain Education Interne For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 460