Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
૩૫૪ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૧)
साधुत्वाव्यभिचारात्, आह - ननु प्रस्तुतशास्त्रप्रणेतृत्वेन गौतमादीनामधिकृतदेवतात्वं युज्यते शेषाणां तूपाध्यायादीनां कथं तद्भावः ? इति उच्यते, तदध्येतॄणां वाचनाप्रदानसाहाय्यकर्तृत्वादिभिस्तेषामपि तद्भावाविरोधाददोषः । तदेवं कृतदेवतात्रयनमस्कारः प्रयोजनाद्युपदिदर्शयिषयेदमाह - अवश्यं कर्त्तव्यमावश्यकं - सामायिकादिषडध्ययनकलापस्तस्य विवरणं-वृत्तिस्तां 'वक्ष्ये' अभिधास्ये इति योग:, अहमित्यात्मनिर्देशः, तां च न स्वमनीषिकया वक्ष्ये किन्तु गुरूणामुपदेशो गुरूपदेशस्तस्मात्, अनेन च मोक्षार्थिना सर्वमेव गुरुपारतन्त्र्येणानुष्ठेयं न स्वातन्त्र्येणेत्यावेदितं भवति, तदनेन श्लोकपश्चार्द्धेन षड्विधावश्यकार्थोऽस्याभिधेयत्वेन दर्शितो भवति, प्रस्तुतवृत्तेस्तदर्थव्याख्यारूपत्वात्, प्रयोजनं तु शिष्याचार्यभेदाद्विधा - परमपरं च तत्र परं द्वयोरपि शिष्याचार्ययोः परमपदप्राप्तिरूपम्, अपरं त्वाचार्यस्य शिष्यानुग्रहः शिष्यस्य तु षड्विधावश्यकपरिज्ञानम्, एतदप्यनेन सूचितं भवति, सम्बन्धस्तूपायोपेयभावलक्षणः सामर्थ्यादवसीयते, तथाहि - अत्रोपेयं षड्विधावश्यकपरिज्ञानम् उपायस्तु प्रस्तुतवृत्तिरिति गम्यत इत्यार्यार्थः । एवं च परम श्रेयोनिबन्धने वृत्तिकरणे प्रवृत्तस्य भगवतः कश्चिद्विभीषिकाप्रायः सम्भवत्येवं वादी पर:निष्फलोऽयं भवद्वृत्तिकरणप्रयासः, त्वयैव तावच्छेषसूरिभिश्च सविस्तराया एतद्वृत्तेर्विहितत्वादिति, एतन्निरासार्थमाह–‘यद्यपी त्यादि (१ - १४), यद्यप्येतद्व्यतिरेकेण मयाऽपराऽपि सविस्तरा वृत्तिविरचिता तथा शेषैश्च सूरिभिः तथाऽपि सङ्क्षेपात् - सङ्क्षिप्ततरः क्रियते वृत्तिकरणप्रयासोऽयमिति योगः, किमर्थं ? - तत्र सङ्क्षेपे रुचिः येषां सत्त्वानां तदनुग्रहार्थं, विद्यन्ते हि बहवः प्रज्ञादिदोषात्सङ्क्षिप्तरुचयः प्राणिनो येषामेतद्वृत्तितोऽप्यनुग्रहः स्यादिति भावार्थ:, 'यद्यपि मया वृत्तिः कृते' 'त्येवंवादिनि च वृत्तिकारे चतुरशीतिसहस्र- प्रमाणाऽनेनैवावश्यकवृत्तिरपरा कृताऽऽसीदिति प्रवादः सत्य इव लक्ष्यते इत्यार्यार्थः ।। इह च नियुक्तिकारस्तावत्स्वयमेव 'आभिणिबोहियनाण' मित्यादिना भावमङ्गलं दर्शयिष्यति, प्रयोजनादित्रितयं नामादिमङ्गलं च सामर्थ्यगम्यमिति तद्दर्शयितुमाशङ्कापूर्वकं वृत्तिकार उपक्रमते -' इहावश्यके 'त्यादि (२-१), अत्र च यथाबोधं विषमपदानि विव्रियन्ते, तद्यथा-' सम्बन्धस्तूपायोपेयलक्षणस्तर्कानुसारिणः प्रती 'ति (४- २), एतदुक्तं भवति - तर्कानुसारिमतेनोपायोपेयलक्षणः सम्बन्धः, सिद्धान्तानुसारिणस्तु केन कृतमिदं शास्त्रं क्व क्षेत्रे कस्मिन् वा काले ? इत्यादिकं सम्बन्धं व्याचक्षते, तं चानन्तरमेवासौ ' अथवा उपोद्घाते'त्यादिना (४-५) स्वयमेव दर्शयिष्यतीति, 'नाप्यतद्बुद्ध्ये 'ति (९-४), काञ्चनेऽप्यकाञ्चनबुद्ध्या. इदमिह तात्पर्यम्-आत्मगते सम्यग्ज्ञानमिथ्याज्ञाने एव मङ्गलामङ्गलस्वरूपे न बाह्यं वस्तु, तस्य निमित्तमात्रत्वात्, यस्तु मङ्गलमपि मङ्गलबुद्ध्या न गृह्णाति यो वाऽमङ्गलमपि मङ्गलबुद्ध्याऽध्यवस्यति तौ द्वावपि मिथ्याज्ञानापवित्रितमानसाविति कुतस्तयोर्मङ्गलमिति, 'चशब्दाद्यावद्द्रव्यभावि च प्रायश' इति (१३-१ प्रायसः), एतदुक्तं भवति -' यद्वस्तुनोऽभिधान' मित्यादिना (१२- १) प्रतिपादितस्य द्विविधस्यापि नाम्न इदमपरं चशब्दाक्षिप्तं विशेषणं द्रष्टव्यं तद्यथा - द्विविधमपि नाम भवति, कथम्भूतं ? - प्रायशो यावद्द्रव्यभावि-यावन्तं कालं नामवद् द्रव्यमास्ते तावन्तं कालं नामाप्यवतिष्ठते प्रायश इति भावः, ननु प्रायोग्रहणं किमर्थं ? सूत्रे यावत्कथिकतया नाम्नो निरपवादं प्रतिपादितत्वाद् इत्याशङ्क्याह—
Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390