Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 385
________________ ૩૬ ર લ મલધારી હેમચન્દ્ર સૂરિકૃત ટીપ્પણક (ભાગ-૧) नन्वेतदप्यवधिविषयतया चिन्त्यमानयोर्वृद्धिहान्योः प्रतिनियतविषयत्वं कुतः ? इत्याह-'विचित्रे'त्यादि, अवधेर्निबन्धनं क्षयोपशमः स च विचित्रोऽतस्तद्वशाज्जायमाने वृद्धिहानी उक्तक्रमेणैव भवत इत्यलं प्रसङ्गेनेति। 'लोचनद्वयोपयोगवदि'त्यत्र (१२८-७) सप्तम्यन्ताद्वतिः, यथा किल लोचनद्वयस्याप्युपयोगे-व्यापारे सति जीवस्यैकदा एक एवोपयोगः एवमनेकस्पर्द्धकव्यापारेऽप्येक एवास्योपयोग इति, यदिवा यः प्रकाशमयस्तस्यैकस्मिन्नप्यर्थे प्रकाशकत्वेन व्याप्रियमाणस्य सर्वात्मना व्यापारो न देशतः, यथा प्रदीपस्य, जीवोऽपि ज्ञानप्रकाशेन प्रकाशवान् ततोऽस्यापि सर्वस्पर्द्धकैरेकोपयोगतया सर्वात्मना व्यापार इति. एतदेवाह'प्रकाशमये'त्यादि, उक्तार्थमेव, नवरं प्रदीपस्योपयोगो-व्यापारः स इव-तद्वत्, प्रदीपस्य हि प्रकाशने व्याप्रियमाणस्य प्रत्यर्थं सर्वात्मना व्यापार: न देशतः, एवं जीवस्यापीति भावः । क्षेत्रद्वारे संखेज्जमसंखेज्जा' गाहा (१३५-५), अत्रायं तात्पर्यार्थः-यस्तावदसम्बद्धोऽवधिर्भवति स 'पुरुषाबाधया हेतुभूतया' (१३६-१), अवधिपुरुषयोर्यदन्तरालं तेन हेतुभूतेनासम्बद्धोऽवधिर्भवतीत्यर्थः, स चावधिः सख्येयक्षेत्रविषयोऽसङ्ख्येयक्षेत्रविषयो वा भवति, यदिवा पुरुषाबाधया 'सहे'ति सहार्थे तृतीया, कोऽर्थः ? -पुरुषावध्योरन्तरालं सङ्ख्येयमसङ्ख्येयं च भवति अवधिश्च सङ्ख्येयोऽसङ्ख्येयश्च भवतीति, एतदेवाह'इदानीमबाधया चिन्तयत'इत्यादि (१३६-३), शेषं सुगम यावज्ज्ञानपञ्चकसमाप्तिः, नवरं 'केवलनाणेणऽत्थे' इत्यादिगाथां विवृण्वता पर्यन्ते यदुक्तं वाग्योगश्रुतं द्रव्यश्रुतमेव'(१४७-७) भवतीति तदनन्तरव्याख्यातपाठान्तरेण सह न योजनीयं, किन्तु प्रागेव, तत्र किल पूर्वं श्रुतशब्दं पृथकृत्यैत्दुक्तं 'स शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति', साम्प्रतं तु समस्तं श्रुतशब्दं कृत्वा निर्देशस्तद्वायोगश्रुतं शेषं भवति-द्रव्यश्रुतमेव भवतीत्यर्थः ।। ज्ञानपञ्चकविवरणं समाप्तमिति ॥ ___'अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थं 'मिति (१५७-४), अनन्तराभिहितपञ्चविधावश्यकानुष्ठानेनापगता ये व्रतानामतिचारास्तेभ्यो ये इतरे-सामायिकादिकायोत्सर्गान्तपञ्चविधावश्यकादशुद्धास्तैरुपचितं यत्कर्म तद्विशरणार्थमनशनादिगुणसन्धारणा प्रत्याख्यानस्याधिकारः, इदमुक्तं भवतिइह केचिदतिचारा मन्दसङ्क्लेशजनिताः कायोत्सर्गावसानावश्यकानुष्ठानतोऽपि निवर्तन्ते, अपरे त्वधिकतरसङ्क्लेशनिवांस्तप:शोध्या भवन्ति, तैर्यदुपचितं कर्म तन्निर्जरणार्थमनशनादि-गुणप्रतिपत्तिरधिकारः षष्ठावश्यकस्येति । 'निवपुच्छिएण भणिओ'इत्यादि (१६५-२) गाथार्थः कथानकादवसेयः, तच्चेदम्इह कस्यचिद्राज्ञः सूरेश्च जल्पोऽभूत्-एकेनोक्तं-राजपुत्रा विनीता भवन्ति, अपरेण तूक्तं-संयताः, तत्र द्वयोरपि परीक्षणार्थं प्रथमं तावद्राजपुत्रो गङ्गा किमभिमुखी वहतीति निरीक्षणार्थं प्रेषितः, तेन चोक्तं-किमत्र निरीक्षणीयं?, पूर्वाभिमुखी वहत्यसाविति प्रतीतमेवेदं, महात कष्टेन प्रेषितोऽप्यपान्तरालादागत्यावोचतत्गतोऽहं दृष्टा पूर्वाभिमुखी वहतीति । साधुः प्रेषितः, स चाचिन्तयत्-गुरवोऽपि पूर्वाभिमुखी वहत्यसाविति जानन्त्येव, केवलमिह कारणेन भाव्यमिति विचिन्त्य जानन्नपि तमर्थं गतो गङ्गायां, स्वत: परतश्च विशेषतो निश्चित्य गुरवे न्यवेदयत्पूर्वाभिमुखी वहति, तत्त्वं तु गुरवो विदन्तीति, व्योरपि च चेष्टा प्रच्छन्नपुरुषैराज्ञे निवेदिता, प्रतिपन्नं चानेनसाधूनामनुत्तरो विनय इति, तदपरेणापि मुमुक्षुणा तत्साधुवदाचरणीयमिति । 'इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनिर्युक्तौ'चेत्यादि (१७०-५) तत्र 'उद्देसे निद्देसे अ निग्गमे इत्यादि यद्वारगाथाद्वयं भणिष्यति

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390