Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 389
________________ ૩૬૬ મલધારી હેમચન્દ્ર સૂરિષ્કૃત ટીપ્પણક (ભાગ-૧) नैगमनयः सामायिकस्य नपुंसकनिर्देशमिच्छति, यदिवा निर्देश्यमेवाश्रित्यैतन्मतेन सामायिकस्य प्रकारान्तरेण लिङ्गत्रयनिर्देशोऽपि घटत इति दर्शयितुमाह - ' तथा सामायिकवतः स्त्रीपुंनपुंसके 'त्यादि ( ३१४-२), तदेवं निर्देश्यवशात् केवलो नपुंसकनिर्देश एव लिङ्गत्रयनिर्देशोऽपि चेति दर्शितं, साम्प्रतं निर्देशकवशात्रिलिङ्गतां दर्शयितुमाह——तथा निर्देष्टु'रित्यादि ( ३१४-४), सुगमम्, 'यदा पुमान् पुमाँसं स्त्रियं चाहेत्यादि (३१६२), इदमुक्तं भवति - ननु पुंसः पुमांसं निर्दिशतः पुंनिर्देशः स्त्रियं निर्दिशतस्तदुपयोगानन्यत्वात्स्त्रीनिर्देशो नपुंसकमभिदधतस्तदुपयोगानन्यत्वादेव नपुंसकनिर्देश इति प्रत्येकवस्त्वभिधाने शब्दनयमतमवगन्तव्यं, यदा त्वसमानलिङ्गे द्वे वस्तुनी पुमान् निर्द्दिशति तदा किं भवतीत्यभिदधानं शिष्यमाशङ्क्य सूरिराह‘असमानलिङ्गनिर्देशस्त्ववस्त्वेवे 'ति, असमानं लिङ्गं ययोः स्त्रीपुरुषयोस्तयोरेककालमेकेन वक्त्रा योऽसौ निर्देशः सोऽवस्त्वेव, तमेव निर्देशं दर्शयति-'यदा पुमानि' त्यादि ननु कथमस्य निर्देशस्यावस्तुत्वमित्याह'तस्य पुरुषयोषिदित्यादि ( ३१६-३), तस्य - वक्तुः पुंसः पुरुषयोषिदापत्तेरिति सम्बन्ध:, केन ? - 'पुरुषयोषिद्विज्ञानोपयोगे त्यादि, इदमुक्तं भवति - पुरुषविज्ञानोपयोगस्य योषिद्विज्ञानोपयोगस्य च परस्परं भेदोऽभेदो वा ?, यदि भेदस्तदा वक्तुः परस्परविभिन्नपुरुषयोषिद्रूपतापत्तिः, तदुपयोगानन्यत्वाद्, अथाभेदोऽत्रापि तत एव हेतोर्वक्तुः परस्परं सङ्कीर्णशबलरूपपुरुषयोषि द्रूपतापत्तिरेवेति पुरुषयोषिद्विज्ञानोपयोगयोः परस्परं भेदेऽभेदे वा वक्तुः पुरुषयोषिदापत्तिरेवेति भावनीयमिति । ननु वक्तुः सम्बन्धिन उपयोगस्य पुरुषयोषिद्रूपताऽस्तु, वक्तुस्तु कथं ? तस्योपयोगाद्भिन्नत्वादित्याशङ्क्याह-' अन्यथा वस्त्वभावप्रसङ्गादिति (३१६-३), इदमत्र हृदयं—इह वक्ता तावदजीवत्वेन भवद्भिरपि नाभ्युपगम्यते, जीवस्तूपयोगलक्षणो भवति, ततश्चायं वक्ता जीवोऽपि न भवेद्, उपयोगाद्भिन्नत्वाद्, उपलशकलवत्, न च जीवाजीवव्यतिरेकेण वस्त्वन्तरमस्ति, ततश्च वक्तृलक्षणवस्त्वभाव एव स्यात्, तस्मात्पुरुषयोषिद्विज्ञानोपयोगाद्वक्ताऽभिन्न एवाभ्युपगन्तव्यः, तदभ्युपगमे च वक्तुरनिवारितैव पुरुषयोषिद्रूपतापत्तिरिति तात्पर्यार्थः || 'अरिहंत सिद्धपवयण' इत्यादि (३४६-१) गाथाविवरणे 'एएसि’ति पदं व्याख्यानयन्नाह - 'एतेषामर्हदादीना 'मिति (३४७ - १४), ननु कथं सर्वेऽर्हदादयः षष्ठ्यन्ततया सम्बन्ध्यन्ते "बहुस्सुए तवस्सीसु" इत्यत्र हि सप्तमी दृश्यत इत्याशङ्क्याह- 'प्राक् षष्ठ्यर्थे सप्तमी 'त्यादि (३४७-१४)। ॥ इति म. हेमचन्द्रसूरिकृतटीप्पणकस्य प्रथमो विभागः समाप्तः ॥ ॐ

Loading...

Page Navigation
1 ... 387 388 389 390