Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
પરિશિષ્ટ-૧ ૨ ૩૬૩ तद्वितीयगाथान्ते 'भवागरिसफासणनिरुत्ती'त्यनेनोपात्तं निरुक्तिद्वारं अध्यवसानपर्यन्तवत्तिन्या 'सामाइअं संमइअं सम्मावाओ' इत्यादिगाथया व्याख्यास्यते, अत्र तावन्निरुक्तिद्वारायतं सामायिकं व्याख्यातं, तथा 'नंदिमणुओगदारं' इत्यादिना च भणिष्यमाणसूत्रस्पर्शिकनियुक्तौ 'सामं समं च सम्मं इगमिति सामाइअस्स एगट्ठा' इत्यादिगाथायं च सामायिकव्याख्या करिष्यत इति भावः, शेषं प्रकटार्थमिति । 'सुखावतार'मित्यादि (१७५-६), सुखावतारं सुखोत्तारं सरजस्कदर्शनमिति संटङ्कः, कथं ?, तत्र कष्टानुष्ठाननियमस्य कस्यचिदभावाद्यथाकथंचिद्रूपतयाऽपि व्रतपरिपालनस्य तैरभिधानात् सुखेनैव तद्दीक्षां प्राणिनः प्रतिपद्यन्त इति सुखावतारता, तथा न तेषां दर्शने तथाविधवासकस्वभावा काचिन्निपुणा युक्तिरस्ति यद्वासितान्तरात्मा पुमाँस्तद्दीक्षां न परित्यजेत्, किञ्च- "शैवो द्वादश वर्षाणि, व्रतं कृत्वा ततः परम् । यद्यशक्तस्त्यजेतापि, यागं कृत्वा व्रतेश्वरम् ॥१॥" इति दीक्षात्यागस्य निर्दोषतयाऽप्यभिधानात्सुखोत्तरत्तेति १ सुखावतारं दुरुत्तारं शाक्यानां, तत्र 'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥१॥' इत्यभिधानात्, तथा 'मणुन्नं भोअणं भोच्चे'त्याद्यभिधानाच्च सुखावतारता, तथा वासकनिपुणयुक्तिसद्भावाव्रतत्यागे च महतः संसारदण्डादेः प्रतिपादनाद्दुरुत्तारतेति २, तृतीयं वोटिकानां, तत्र नाग्न्यादिकष्टस्य दुरध्यवसेयत्वाद्दुःखावतारता नाग्न्यप्रतिष्ठापकतथाविधनिपुणयुक्त्यभावात् सुखोत्तारतेति ३, चतुर्थं साधूनां, तत्र दु:खावतारता वोटिकवद् दुरुत्तारता शाक्यवद्भावनीयेति ४ । अन्ये तु सुखोत्तारतां दुरुत्तारतां वा सर्वत्र मोक्षमाश्रित्य व्याचक्षते, तत्र सरजस्कानां स्वल्पेनैव किलेश्वरोक्तानुष्ठानेन मुक्ति प्राप्त्यभ्युपगमात्सुखोत्तारं सुखेनास्मात्संसारजलधिमुत्तरन्तीति व्युत्पत्तेरिति, शाक्यानां तु दुरवापविशिष्टध्यानमार्गाद् योगिज्ञानोत्पत्त्यादिक्रमेण मुक्त्यभ्युपगमाद्दुरुत्तारता दुःखेनास्मात्संसारमुत्तरन्तीतिकृत्वा, बोटिकानां तु भिक्षाशुद्ध्यादीनां गौणत्वेनाभ्युपगमान्नाग्न्यलक्षण-निर्ग्रन्थतामात्रादेव मुक्त्यभ्युपगमात्सुखोत्तारता, साधूनां तु दुरुत्तारता शाक्यवद्भावनीयेति, अवतारपक्षे तु सर्वत्र भावना पूर्वोक्तैवेति। 'द्रव्यभावतीर्थ 'मिति (१७५-७), तैरप्युक्तक्रमेण चतुष्प्रकारं नद्यादेव्यतीर्थमात्मात्मीयं तु दर्शनं भावतीर्थमिष्यते इति भावः ॥ 'ते वंदिऊण सिरसा इत्यादि गाथां विवृण्वता वृत्तिकृता-किं ?-नियुक्ति कीर्तयिष्ये, इत्यस्मादनन्तरं 'कस्ये'ति (१८१-१) षष्ठ्यन्तं यत्पदं निरदेशि तस्य पर्यन्तेऽभिधास्यमानेन श्रुतज्ञानस्येत्यनेन पदेन सह सम्बन्धो, न पुनरनन्तरनिर्दिष्टेन अर्थपृथक्त्वस्येत्यनेन सह, तस्य विशेषणत्वाच्छृतज्ञानस्यैवात्र विशेष्यत्वात्, श्रुतज्ञानस्य नियुक्ति कीर्त्तयिष्ये इत्यर्थः, भगवत इत्येतद्विशेषणं किमित्याह-स्वरूपाभिधानमेवे'ति तद्वतां समग्रैश्वर्यादिगुणकलापोपेतत्वेन भगवत्त्वाच्छ्रुतमपि भगवदिति श्रुतज्ञानस्य स्वरूपमनेन विशेषणेनाभिधीयत इत्यर्थः । 'अल्लेस्सेहिं वन्नेहिं चित्तिउत्ति (१८६-८), वज्रलेपादिकुद्रव्यप्रक्षेपरहितैर्वर्णकैश्चित्रित इत्यर्थः । एतेषां च मध्यभागं क्षपयन्नेताः सप्तदश प्रकृती'रित्यादि (२४९-६), इह कर्मग्रन्थेष्वत्रान्तरे षोडशैव प्रकृतयः क्षप्यमाणत्वेनाभ्युपगम्यन्ते न सप्तदश, यतस्तन्मतेनापर्याप्तनामकर्मेह न क्षप्यते, किन्त्वयोगीद्विसप्ततिकर्मप्रकृतिकदम्बकमध्ये तत्क्षपयति, तस्मान्मतान्तरत्वेने ह सप्तदशानामुपन्यासो न विरुध्यत इति । 'समचउरंसे नग्गोह मंडले' इत्यादिगाथानिर्दिष्टानामेव संस्थानानां स्वरूपव्याचिख्यासया प्राह–'तुल्लं वित्थडबहुलं'गाहा (२५२-७),
Page Navigation
1 ... 384 385 386 387 388 389 390