Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
૩૫૭
પરિશિષ્ટ-૧ चतुभिः समयैर्लोकः पूरितो भवति, 'यदा तु विदिग्व्यवस्थितो वक्ती' त्यादि (५४-१०), अत्र कीलैकस्मिन् समये विदिशो दिशि समागच्छन्ति पुद्गलाः, द्वितीयसमये त्वन्तर्नाडीं प्रविशन्ति, शेषसमयत्रयं पूर्ववदेव, अत्र वृत्ताकारं लोकं मध्ये वृत्ताकारां त्रसनाडीं च व्यवस्थाप्य दिग्विदिक्कल्पना भावनीया, तद्यथा - स्थापना - ( अत्र च त्रिसमयपक्षे चतुष्पञ्चसमयपक्षे च येऽनुश्रेणिव्यवस्थिता निष्फुटयस्त एव पूर्यन्ते, वक्रनिष्कुटपूरणं तु न बुद्ध्यत एव, स्वल्पत्वाच्च न विवक्षितमिति लक्ष्यते इति, 'शेषदिक्षु पराघातद्रव्यसम्भवाद् द्वितीयसमय एव मन्थानसिद्धे 'रित्यादि (५५-५), एतदुक्तं भवति - तानि हि भाषाद्रव्याणि वासकस्वभावानि, वास्यद्रव्याणि तु सर्वास्वपि दिक्षु विद्यन्ते, ततश्च यथा वह्निर्दाह्यं प्राप्य दहत्येव नोदास्ते तथाऽयमपि भाषाद्रव्यसमूहः प्रथमसमये सत्तां प्राप्य द्वितीयसमये सर्वास्वपि दिक्ष्वपरवास्यद्रव्याणि वासयन् प्रसरत्येवेति द्वितीयसमये मन्थसिद्धिः, केवलिनस्तु जीवप्रदेशा द्वितीयसमये कपाटतयैव प्रसरन्ति तेषामपरवासाद्रव्याभावाद्भवोपग्राहिकर्म्मपरतन्त्रत्वाच्चेति शेषं सुगमं 'यावच्चरमान्ते ऽसङ्ख्येयभागे' इत्यादि (५६-७), ननु च षट्स्थानलक्षणगणितमपेक्ष्य चरमान्तोऽनन्तभागोऽपि सम्भवति तत्किमित्यसङ्ख्येयभागे इत्युक्तमित्याशङ्क्याह–‘क्षेत्रगणितमपेक्ष्ये 'ति, इदमुक्तं भवति - लोक क्षेत्रस्यासङ्ख्येयप्रदेशात्मकत्वादनन्तशब्दविरहितं चतुःस्थानकलक्षणमेव गणितं सम्भवति, तत्र तु चरमोऽसङ्ख्येयभाग एव नानन्तभाग इति युक्तमुक्तं चरमान्तेऽसङ्ख्येयभागे इति । 'तत्राद्येष्वनन्तानुबन्धिषु क्रोधादिषूभयाभाव इति' (६१४), नन्वनन्तानुबन्धिषूदयप्राप्तेषु सास्वादन: पूर्वप्रतिपन्नो मतिज्ञानस्य सम्भवति तत्कथमुभयाभाव उक्तः ?, सत्यं सम्भवति किन्त्वल्पत्वात्तत्कालस्याविवक्षेति लक्ष्यते, तत्त्वं तु बहुश्रुता विदन्तीति । व्यवहारनयमतेन सम्यग्दर्शनमतिश्रुतानां प्रतिपद्यमानको मिथ्यादृष्टिरेव भवति न पुनः सम्यग्दृष्टिः सन् मतिश्रुते प्रतिपद्यते, कुत: ? इत्याह-'सम्यग्दर्शनमतिश्रुतानां युगपल्लाभादि ति ( ६१ - १०), यदि हि प्राप्ते सति सम्यक्त्वे ततो मतिश्रुते प्रतिपद्येत तदा स्यात्सम्यग्दृष्टिर्मतिज्ञानस्य प्रतिपद्यमानकः, न चैतदस्ति, सम्यक्त्वेन सहैव तल्लाभात्, अथ सम्यक्त्वेन सह लब्धे अपि मतिश्रुते सम्यग्दृष्टिः पुनरपि प्रतिपद्यते ? इत्याशङ्क्याह'आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्चे 'ति (६१-१०), यदि ह्येकदा प्रतिपन्नमपि पुनरपि प्रतिपद्य तदा तत्प्रतिपत्त्यनुपरमप्रसङ्ग इति भाव: । 'निश्चयनयस्त्वि' त्यादि (६१ - ११), नन्वाभिनिबोधिकलाभस्य सम्यग्दर्शनसहायत्वादिति व्यवहारनयेनाप्युक्तं तत्कोऽस्य व्यवहाराद्विशेषो येनास्य सम्यग्द्दष्टिर्मतिज्ञानस्य प्रतिपद्यमानको भवति ? इत्याह- ' क्रियाकालनिष्ठाकालयोरभेदादिति (६२ - १), निश्चयो हि मन्यते यदैव सम्यक्त्वप्राप्तिक्रियाविशिष्टो भवति जीवः तदैव सम्यग्दृष्टिव्यपदेशमासादयति, क्रियाकालस्य निष्ठाकालस्य चैकत्वाद्, अतः सम्यग्दृष्टिः सन्नेतदभिप्रायेण मतिज्ञानं प्रतिपद्यत इति । 'इदानीं दर्शनद्वार' मित्यादि (६३ - ३), नन्वत्र चक्षुरचक्षुर्दर्शनिनः किमिति विशेषतस्तल्लब्धिमन्तो व्याख्याताः, यावतैतद्दर्शनोपयोगेऽपि मतेः पूर्वप्रतिपन्ना लभ्यन्त एव ?, सत्यमेतत्, किन्तु लब्धिमत्पक्षे पूर्वप्रतिपन्नाः प्रतिपद्यमानकाश्चोभयेऽपि लभ्यन्ते, उपयोगपक्षे तु पूर्वप्रतिपन्ना एव प्राप्यन्तेनेतरे इति तद्व्युदासेन विशेषतो लब्धिमद्ग्रहणं, यद्येवमुपयोगपक्षे पूर्वप्रतिपन्ना लभ्यन्त इति पक्षान्तरं वृत्तिकृता किमिति न दर्शितम् ? इति

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390