Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 379
________________ ૩૫૬ છે. મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૧). श्रुतनिश्रिता अपि भवन्तु को दोषः ?, ननु बुद्धीनामवग्रहादयः सूत्रे नोक्ता एव तत्कथमिदमुच्यते?, सत्य, साक्षान्नोक्ताः सामर्थ्यात्तु गम्यन्त एव, न हि ता अप्यवग्रहादीनुल्लङ्घय झगित्येव वर्तन्त इति युक्तिसङ्गतं, नन्वनया युक्त्या तर्हि सर्वासामपि बुद्धीनां श्रुतनिश्रितत्वं प्राप्नोति इति चेत्तदयुक्तम्, अश्रुतनिश्रितत्वेन विशेष्य तासां सिद्धान्ते प्रतिपादनात्, न च वक्तव्यं विशेषविषयमश्रुतनिश्रितत्वमिति तर्हि सर्वासामप्यस्तु, तस्य प्रायोवृत्तिविषयत्वात्, 'वैनयिकी विहाय' (२८-१) तवृत्तेरित्यर्थः, अतो व्यवस्थितमेततत्वेनयिकीमपहाय शेषबुद्धीनामश्रुतनिश्रितत्वमिति, यद्येवमश्रुतनिश्रिताना-मौत्पत्तिक्यादिबुद्धीनां मध्ये किमिति श्रुतनिश्रिताया वैनयिक्या उपन्यासं नियुक्तिकार: करिष्यति ? इत्याशङ्क्याह-'बुद्धिसाम्याच्चे' त्यादि (२८-१), अत्र च यदश्रुतनिश्रितं बुद्धिचतुष्टयलक्षणं मतिज्ञानं तस्यागमेऽवग्रहादिभेद: साक्षान्न प्रतिपाद्यत एव, अखण्डरूपस्यैव बुद्धिचतुष्टयस्याश्रुतनिश्रितत्वेन नन्द्यादिशास्त्रेषु प्रतिपादनाद्, अतो यत्रावग्रहादिभेदः प्रतिपाद्यते तत् सामर्थ्यात् श्रुतनिश्रितमेव भवतीति चेतसि व्यवस्थाप्य वृत्तिकृदाह-तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाहे'ति (२८-३), 'प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वादिति (४०-१), इदमत्र हृदयं-प्राप्तिनिबन्धनौ यौ तत्कृतावनुग्रहोपघातौ तच्छून्यत्वादिति हेतूपन्यासं कुर्खता युष्मद्दूषणं निरस्तमेव, न हि जलसूर्यादयः पदार्थाः प्राप्ताः सन्तश्चक्षुषी अनुगृह्णन्ति बाधन्ते वा, किन्तु स्वरूपमेव तेषां जलघृतवनस्पतिसूर्यादीनां यदुत विषयत्वेन चक्षुषाऽप्राप्ता अपि तथाविधपुद्गलपरिणामसद्भावात् तत्स्वास्थ्यं बाघां वा जनयन्तीति, अथावश्यं विषयप्राप्तिनिबन्धनावनुग्रहोपघातावभ्युपगम्येते तत्राह—'किं च यदि ही'त्यादि (४०-२) सुगमं यावत् 'प्राक् प्रतिज्ञातयो रित्यादि (४०-६), यदि हि सूक्ष्मा नायना रश्मयोऽभ्युपगम्यन्ते तदा यौ प्राग् भवतैव वनस्पतिसूर्यादिभ्योऽनुग्रहोपघातौ प्रतिज्ञातौ तावपि न प्राप्तुत इति भावः ।। 'इह कश्चिन्मन्दप्रयत्नो वक्ता भवती'त्यादि (५३-१०), अत्र महाप्रयत्नवक्तृपक्षेऽनन्तगुणवृद्ध्या वर्द्धमानानीति भणिष्यमाणत्वात् मन्दप्रयत्नवक्तृपक्षे स्तोकत्वेन विभिद्यन्त इति सामर्थ्यात्साध्याहारं व्याख्येयं, कुतः स्तोकत्वेन भिद्यन्ते ? इत्याह-'असङ्ख्येयात्मकत्वात्' (५३-११), तानि हि वक्तर्मन्दप्रयत्नत्वादसङ्ख्येयान्येव खण्डानि भवन्ति नानन्तानीति स्तोकान्येव भवन्ति, ‘परिस्थूरत्वाच्च' यदि हि तानि सूक्ष्मतया भिद्येरंस्तदा बहून्यपि स्युः न च तथा भिद्यन्त इत्यतोऽपि स्तोकानीति भाव इति, ‘यदा तु लोकान्तस्थितो वा भाषको वक्तीति' (५४-८), अत्र 'तुः' पुनर्थे वाशब्दस्तु चशब्दार्थे, तस्य चैवं प्रयोगो द्रष्टव्यः-यदा च पुनर्लोकान्तव्यवस्थितो भाषको वक्ति, एतदेव व्याचष्टे–'चतसृणां दिशामन्यतमस्यां वा दिशि नाड्या बहिरवस्थित' इति (५४-९), अयमत्र भावार्थ:-यदि भाषक: किञ्चिन्नाड्या बहिर्विनिर्गत्य चतसृणां दिशामन्यतमस्यां वा दिशि स्वयम्भूरमणपरकूललोकान्तेऽलोकस्य निकटीभूय वचनमुदीरयति तदा चतुरङ्गुलबाहल्यो रज्ज्वायामो दण्ड: प्रथमसमयेऽन्तर्नाडी प्रविश्य स्वयम्भूरमणापरप्रान्ते लगति, ऊर्ध्वाधस्तु न सम्पूर्णदण्डप्रसरोऽस्ति, लोकस्खलितत्वादिति भावनीयं, ततश्च द्वितीयसमये चतुरङ्गुलबाहल्यो रज्जुविस्तर ऊर्ध्वाधस्तु चतुर्दशरज्जावायामः कपाटाकारा(रोऽ)णुराशिः प्रधावति, तिर्यग्लोके तु दिग्द्वयाणुविनिर्गमे स्थालकाकार: पुद्गलराशिर्भवति, तृतीयसमये तूर्वाधोव्यवस्थितकपाटे मन्थसिद्धिः, चतुर्थे त्वन्तरालपूरणमिति

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390