Book Title: Avashyak Niryukti Part 01
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 381
________________ ૩૫૮ મલધારી હેમચન્દ્ર સૂરિકૃત ટીપ્પણક (ભાગ-૧) चेत्सत्यं, सुगमत्वादिति पश्यामः, स्वयमेव वाऽभ्यूह्यमिति, भवत्वेवं, तथाऽप्यवधिदर्शनिनां यः प्रतिपद्यमानकनिषेधः सोऽसमीक्षिताभिधानादिव लक्ष्यते, तथाहि-यदा विभङ्गज्ञानी देवनारकादि: कश्चित् सम्यक्त्वं प्रतिपद्यते तदाऽवधिदर्शन्येवासौ मतेः प्रतिपत्ता लभ्यते, न च वक्तव्यं विभङ्गिनोऽवधिदर्शनं नास्ति, तस्यागमेऽनेकधा प्रतिपादनाद्, यदाह प्रज्ञप्तिः- "ओहिदसणअणगारोवउत्ता णं भंते ! किं नाणी अन्नाणो ?, गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगइया तिनाणी अत्थेगइया चउनाणी, जे तिनाणी ते आभिणिबोहियनाणी सुअनाणी ओहिनाणी, जे चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी, जे अन्नाणी ते नियमा तिअन्नाणी, तंजहा–मतिअन्नाणी सुयअन्नाणी विभंगअन्नाणी' तदेतदवधिदर्शनिनोऽप्यज्ञानत्रयमुक्तमिति कथं विभङ्गिनो नावधिदर्शनमिति, यदिवा विभगङ्गज्ञान्यपि यदा सम्यक्त्वमतिश्रुतावधीन् प्रतिपद्यते तदा प्रतिपद्यमानं प्रतिपन्नमिति निश्चयनयमतेन प्रतिपत्तिक्षणेऽप्ययमवधिज्ञानी अवधिदर्शनी च भवत्येव, ततश्चानेनापि न्यायेनावधिदर्शनी मतिज्ञानस्य प्रतिपत्ता लभ्यत एवेत्येतदाचार्यस्याप्येकं - - स्खलितमिवाभातीति, तदेतत्सर्वमयुक्तम्, अभिप्रायापरिज्ञानात्, यदि ह्यवधिदर्शनलब्धिमन्तोऽत्र विवक्षिताः स्युस्तदा सर्वं त्वदुक्तं शोभेत, न चैतदस्ति, अवधिदर्शनोपयोगिनामेवेह विवक्षितत्वात्, न च दर्शनोपयोगे वर्तमानस्य मतिज्ञानप्रतिपत्तिरस्ति, लब्धित्वात्तस्य, लब्धीनां च दर्शनोपयोगे निषेधाद्, विशेषानभिधानात् कथमवधिदर्शनोपयोगिन इह विवक्षिता इति लभ्यते ? इति चेद् एतद्वचनान्यथाऽनुपपत्तेरिति ब्रूमः, तत्त्वं पुनरनुत्तरज्ञानिनो विदन्तीति, शेषं सुबोधं यावन्मतिज्ञानसमाप्तिः । इदानीं श्रुतज्ञानमारभ्यते, तत्र-'अथवा दव्यादिचतुष्टयात्साद्यनाद्यादि अवगन्तव्यं यथा नन्द्यध्ययने इति' (७६-७), व्याख्यायते, एकेन प्रकारेण तावत्सादिसपर्यवसितादिविचारः कृतः, साम्प्रतमसावेव द्रव्यक्षेत्रकालभावद्वारेण नन्द्यनुसारतो विधीयते, तत्र द्रव्यत एकं जीवद्रव्यमाश्रित्य सादिसपर्यवसितं श्रुतज्ञानं, तथाहि-केनचित्तत्प्रथमतया श्रुमवाप्तं पुनर्भवान्तर मिथ्यात्वं वा गतस्य प्रमादग्लानत्वादिभ्यो वा कारणेभ्यः प्रतिपततीति तत्तस्य सादि सपर्यवसितं च भवति, क्षेत्रतोऽपि भरतैरावतक्षेत्राद्याश्रित्य द्वादशाङ्गश्रुतं सादि सपर्यवसितं च भवति, कालतोऽप्युत्सपिण्यवसप्पिणीषु तद्रूपतैव भावनीया, भावतोऽपि प्रज्ञापकोपयोगं प्रज्ञापनीयभावांश्चाश्रित्य सादिसपर्यवसितताऽसेया, प्रज्ञापकोपयोगो हि प्रयत्नादिनिर्वर्त्यत्वादनित्यः, प्रज्ञापनीयभावा अपि पुद्गलादिसम्बन्धिनो गतिस्थितिवर्णगन्धादयोऽनित्या एव, यच्चानित्यं तद् घटवत्सादि सपर्यवसितमिति प्रतीतमेव, अतस्तदाश्रयं श्रुतमपि तद्रूपमेवेति भावार्थः, तथा द्रव्यतो नानाजीवान् क्षेत्रतो विदेहान् कालतो विदेहसम्बन्धिकालं भावतश्च क्षायो पशमिक भावमाश्रित्य श्रुतमनाद्यपर्यवसितमिति ज्ञेयं, विशेषार्थिना तु विशेषावश्यकमनुसरणीयमिति । 'गाथाशेष'मित्यादि (७७-५) गाथाशेषं 'सत्तवि एए' इत्यादिकं व्याख्यातमेवेति सम्बन्धः, किं कुर्खता?-पूर्वमेवावधारणप्रयोगं दर्शयतेति योगः, शेषं सुगमं यावच्छृतज्ञानं समाप्तमिति । अवधिरधुना विव्रियते-'तथाऽवधिशब्दो द्विरावर्त्यत इति व्याख्यात'मिति (८५-१), एतदत्र हृदयम्-एकीयाचार्यमतेन तावदवधिशब्दः पृथग्द्वारतया योजितो, द्वितीयमतेन तु वक्ष्यगाणद्वारैः सहैकत्वेन मीलयित्वाऽनन्तरंमेव भविष्यणाणविधिना व्याख्येय इत्येवं द्विरावृत्तिः, इदं च द्विरावर्त्तनं मया

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390