Book Title: Auppatiksutram Author(s): Abhaydevsuri, Dronacharya, Publisher: Agamoday Samiti View full book textPage 5
________________ ॥ अहम् ॥ चतुर्दशपूर्वधरश्रुतस्थविरसंकलितं । श्रीमदभयदेवसूरिसंदृब्धविवरणयुतं । श्रीऔपपातिकसूत्रम् । ॥एँ॥श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्थवीक्षिता। औपपातिकशास्त्रस्य, व्याख्या काचिद्विधीयते ॥१॥ अथौपपातिक|मिति कः शब्दार्थः?, उच्यते, उपपतनमुपपातो-देवनारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् । इदं चोपाङ्गं वर्त्तते, आचाराङ्गस्य हि प्रथममध्ययनं शास्त्रपरिज्ञा, तस्याद्योद्देशके सूत्रमिदम्-"एव 'मेगसिं नो नायं भवइअस्थि वा मे आया उववाइए, नथि वा मे आया उववाइए, के वा अहं आसी ? के वा इह ( अहं ) चुए (इओ चुओ) |पेच्चा इह भविस्सामी” त्यादि, इह च सूत्रे यदीपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपश्यत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् । अस्य चोपोद्घातग्रन्थोऽयम् तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था. रिडस्थिमियसमिहा पमुइयजणजाणवया आइण्ण. १ आचाराङ्गवृत्तिकाराभिप्रायेण 'एवेत्यादिर्भवइपर्यन्तः पाठो द्वितीयसूत्रोपसंहारवाक्यरूपः । Jain Education International For Personal & Private Use Only Minelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 244