Book Title: Auppatiksutram Author(s): Abhaydevsuri, Dronacharya, Publisher: Agamoday Samiti View full book textPage 7
________________ प्रमोदकारणवस्तूनां सद्भावात् जना-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदित-18 जनजानपदा, पाठान्तरे 'पमुइयजणुजाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा । 'आइण्ण | जणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तम् , आकीर्णो वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा । 'हलसयसहस्ससङ्किटविकिहलठ्ठपण्णत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहस्रैश्च शतसहस्रा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरं यावद् अविकृष्टा वा-आसन्ना लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पण्णत्त'त्ति योग्यीकृता बीजवपनस्य सेतुसीमा-मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां संकृष्टेन-संकषणेन विकृष्टा-दूरवर्तिन्यो लष्टाः प्रज्ञपिताः-कथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् । 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः-ताम्रचूडाः षण्डेयाः-षण्डपुत्रकाः तेषां ग्रामाः-समूहास्ते प्रचुराः-प्रभूताः यस्यां । 3.सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुक्कुटान् पोषयति पण्डांश्च करोतीति । 'उच्छु- || जवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तं, न ह्येवंप्रकारवस्वभावे प्रमोदो जनस्य स्यादिति । 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलगा उरभ्राः । 'आयारवन्तचेइयजुवइविविहसंण्णिविठ्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि | 5 हाचैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 244