Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 8
________________ औपपातिकम् नगर्यधिक सू०१ ॥२॥ पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयविसण्णिविठ्ठबहुले ति पाठान्तरं, तत्राच्चैत्यानां जनानां वतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैर्वहुलेति विग्रहः, 'सुयागचित्तचेईयजूयसण्णिविठ्ठबहुला' इति च पाठान्तरम् , तत्र च सुयागाः-शोभनयज्ञाः चित्रचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु यूपचयनानि द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानि-निवेशास्तैर्वहुला या सा तथा, 'उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया' उत्कोटा-उत्कोचा लश्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिकाः गात्रात्-मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका, 'उक्कोडियगाहगंठिभेय' इति च पाठान्तरं । व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौयं कुर्वन्तीत्येवंशीलाः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला | वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह । 'खेमा' अशिवाभावात् । 'णिरुवहवा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थः । 'सुभिक्खा' सुष्टु-मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा । अत एव | पाषण्डिनां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां-निर्भयानामनुत्सुकानां वा सुखः-सुखस्वरूपः शुभो वा आवासो | यस्यां सा तथा । 'अणेगकोडिकुडुम्बियाइण्णनिव्वुयसुहा' अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तै :कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सङ्कला या सा तथा, सा चासौ निवृता च-सन्तुष्टजनयोगात्सन्तोपवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः। 'नडनदृगजल्लमलमुट्ठियवेलम्बयकहगपवगलासगआइक्खगलंखमंखतूणइलतुम्बवीणियअणेगतालायराणुचरिया' नटाः-नाटकानां नाटयितारो नर्तका ये नृत्यन्ति, ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 244