Book Title: Ashtsahastri Part 1
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 516
________________ प्रशस्ति : सिद्धं सन्मतिदेवस्य धर्मचक्रकशासनम् । सर्वार्थसिद्धिकर्तारं शासनं जिनशासनम् ॥१॥ बर्षे चतुःशते सप्तत्युत्तरे वीरनिवृते । कुंदकुंदगणी जातो गौतमामुप्रसिद्धिभाक् ॥२॥ तस्य पूतान्वये ख्याते तपोज्ञानपरायणाः । बहवः ख्यातानामानः समभूवन्महर्षयः ।।३।। क्रमशस्तत्र सजातः प्रशान्तः सागरोपमः । शांतिसागर आचार्यो मुनीन्द्रो गणनायकः ॥४॥ येन दैगम्बरी दीक्षाविधिोंके प्रवर्तितः । चिरादासीन्निरुद्धोऽसौ कलिकालप्रभावतः ।।५।। तत्प्रतिष्ठापदं लेभे सूरिः श्री वीरसागरः । निग्रहानुग्रहे दक्षो व्यवहारविदांवरः ।।६।। तपसा तेजसा कीर्त्या प्रभावेण महौजसा । तत्प्रतिष्ठासमः सूरिर्नास्ति सूर इवाम्बरे ।।७।। महाभागस्य तस्यैव गुरोः पादयुगान्तिके । आर्यिकायाः प्रव्रज्या मे सजाता भवहारिणी ।।८।। नाम्ना ज्ञानवती चाहं कृतानेनैव सूरिणा। तत्प्रसादान्मया लब्धमात्मज्ञानं भवान्तकम् ।।६।। लब्धमासीदतः पूर्वं ब्रह्मचर्य व्रतं मया। देशभूषणसूरीणामन्तिके क्षुल्लिकाव्रतम् ॥१०॥ सर्वज विहरन् भूमौ वीरवत् वीरसागरः । आयुरन्ते समाधिस्थः दिवं यातो महामुनिः ।।११।। शिवसागर आचार्यस्ततस्तत्पट्टमाश्रितः । संसारदुखतप्तानां शिवं साक्षात् प्रदर्शयन् ।।१२।। वर्षाणां द्वादशं यावत् विहारं कृतवानसौ । पुनः समाधि संप्राप्य स्वर्गलोकं समाश्रितः ।।१३।। तत: संघानुसम्मत्या धर्मवाद्धिरिवापरः। धर्मसागर आचार्यस्तस्य पट्टे प्रतिष्ठितः ।।१४।। यस्यानुशासन पूतं श्रावकर्मुनिभिस्तथा । ग्नि संधार्यते नित्यं जिनाज्ञेव सुदृष्टिभिः ।।१५।। अध्यात्मन्यायसिद्धांत-ज्ञानं सम्यक् जिनोदितम् । श्रुतदेव्याः प्रसादाद्धि, लब्धं तस्यै नमोऽस्तु मे ॥१६॥ श्रुतभक्त्या-वगाहंते, सज्ज्ञानामृतवारिधिं । तस्मात्तद्भक्तिभावेन, तामेव हृदि धारये ॥१७॥ मरुप्रदेशके ग्रामोऽस्ति टोडारायसिंहकः । तत्र श्रीपार्श्वनाथस्य मंदिरे जिनसन्निधौ ।।१८।। रसविष्णुदिशा युग्मे वीराब्दे विश्रुते शुभे । पौषमासि सिते पक्षे द्वादश्यां शुक्रवासरे ।।१६।। विख्याताष्टसहस्र या वै गीर्वाण्या राष्ट्रभाषया । गुरुभक्त्यानुवादोयं मया सम्यगपूर्यत ।।२०।। स्थेयादष्टसहस्रीयं राष्ट्रभाषा विभूषिता । विदुषां रञ्जनं कुर्याद्यावच्चंद्रदिवाकरौ ॥२१।। इंद्रवज्रा छन्द स्याद्वादचिंतामणिनामधेया, टीका कृतेयं स्वयमल्पबुद्ध्या। सम्यक्त्वशुद्ध्यै भवतात् सदा मे, चितामणिः स्याज्जगते च मह्यम् ।।२२।। इति शुभं भूयात् 卐--卐 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528