Book Title: Ashtsahastri Part 1
Author(s): Vidyanandacharya, Gyanmati Mataji
Publisher: Digambar Jain Trilok Shodh Sansthan

Previous | Next

Page 520
________________ प्रथम परिच्छेद [ ४३७ पृष्ठ नं. २६८ ३२६ ४२६ नन्वेवं सर्वथैकांतः परोपगमतः कथं । सिद्धो निषिध्यते जैन रिति चोद्यं न धीमताम् ।। न हेतोः सर्वथैकांतैरनेकान्तः कथञ्चन । श्रुतज्ञानाभिगम्यत्वात्तेषां दृष्टष्टबाधनात् ।। नरः कोऽप्यस्ति सर्वज्ञः स तु सर्वज्ञ इत्यपि । साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ।। नानुमानादलिंगत्वात् क्वार्थापत्त्युपमागतिः । सर्वज्ञस्यान्यथाभावसादृश्यानुपपत्तितः ।। निविशेषं हि सामान्यं भवेच्छशविषाणवत् । सामन्यरहितत्वाच्च विशेषस्तद्वदेव हि ॥ नवं सर्वत्र सर्वज्ञज्ञापकानुपदर्शनम् । सिद्धं तदर्शनारोपो येन तत्र निषिध्यते ।। २६३ ३ २६५ १२२ १२३ परस्पराविनाभूतं द्वयमेतत्प्रतीयते । नियोगः समुदायोऽस्मात् कायप्रेरणयोर्मतः ।। परोपगमत: सिद्धः स चेन्नास्तीति साध्यते । व्याघातस्तत्प्रमाणत्वेन्योन्यं सिद्धो न सोऽन्यथा ।। पाकं करोति यागं च यदि भेदः प्रतीयते । एवं सत्यनवस्था स्यादसमञ्जसताकरी ॥ पाक करोति याग चेत्येवं भेदेऽवभासिते । कानवस्था भवेत्तत्र तत्प्रतीत्यनुसारिणाम् ।। प्रत्ययार्थों नियोगश्च यतः शुद्धः प्रतीयते । कार्यरूपश्च तेनात्र शुद्ध कार्यमसो मतः ।। प्रमाणं किं नियोगः स्यात् प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः ।। प्रतीतेऽन्तधर्मात्मन्यर्थे स्वयमबाधिते । को दोषः सुनयस्तत्रैकांतोपप्लवसाधने ।। प्रमाणान्तरतोप्येषां न सर्वपुरुषग्रहः । तल्लिगादेरसिद्धत्वात् सहोदीरितदूषणात् ॥ प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य तु । सद्भाववारणे शक्तं को नु तं कल्पयिष्यति ।। प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् । स्वजातीरनतिक्रामन्नतिशेते परान्नरान् ।। प्रेरकत्वं तु यत्तस्य विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वाच्छुद्ध कार्य नियोगता ।। प्रेरणैव नियोगोऽत्र शुद्धा सर्वत्र गम्यते । नाप्रेरितो यतः कश्चिन्नियुक्तं स्वं प्रबुध्यते ॥ प्रेर्यते पुरुषो नैव कार्येणेह विना क्वचित् । ततश्च प्रेरणा प्रोक्ता नियोगः कार्यसंगता ।। प्रेरणा विषयः कार्य न तु तत्प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते । प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणायोगो नियोगस्तेन सम्मतः ।। २६८ २६५ ३३१ - २५८ बुद्धिरेवातदाकारा तत उत्पद्यते यदा । तदास्पष्टप्रतीभास व्यवहारो जगन्मतः ।। बुद्धादयो ह्यवेदशास्तेषां वेदादसंभवः । उपदेशः कृतोऽतस्तामोहादेव केवलात् ।। भावना यदि वाक्यार्थी नियोगो नेति का प्रमा। तावुभौ यदि वाक्याथी हतौ भट्रप्रभाकरौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528