Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 173
________________ जान्युआरी - २०१४ १६७ विद्यमानं महस्तेजो यस्य स नन्दकेन- नन्दकनाम्ना स्वखड्गेन अरीणाम् आशां कृन्तति- छिनत्ति यः सः । प्रद्युम्नं- प्रकृष्टं तेजः प्रद्युम्ननामा पुत्रश्च । द्वि० - नरकनामा दैत्यस्तस्य गतिः- गमनं तद्धरः । शङ्खचक्राङ्कौ पाणी ययोर्द्वयोरपि, तन्मध्ये नेमिः शङ्खचक्रलक्षणलक्षितपाणिः, कृष्णस्तु प्रत्यक्षशङ्खचक्रचिह्नपाणिः । गोपाला:राजानः पशुपालाश्च । बलिन:- सबला ये रिपवोऽन्तरङ्गाऽरयस्तेषां मथनः, द्वि० - बलिनामा रिपुः । कृ० - अरिष्टस्योत्पातस्य नेमिश्चक्रधारा । अन्योऽपि यो वंशो भवति, सः श्रि० श्रितं शरणं- गृहं यैस्ते श्रितशरणाः, श्रितशरणाश्च ते जनाश्च तेषामाधारभूतः ॥१७॥ मूलं श्रीहरिवंशस्य, स्थलं वक्तुं क्षमोऽत्र कः । विष्णुनाभेर्जगत्कर्ता, यतो जात इति श्रुतिः ॥१८॥ ताराणां वरतेजसामपि यथा सङ्ख्यां न कर्तुं क्षमः, कश्चिद् विष्णुपदे न यादवकुले राज्ञां तथा पुष्कले । अस्मिन् श्रीमहिपालदेवतनये शूरेऽधूना तूदिते, ते गण्याः कथमेतमेव तदहो! श्रीराजराजं स्तुवे ॥१९॥ कि० यादव० । विष्णुपदे- कृष्णस्थाने, द्वि० - आकाशे ॥१९॥ एकां मूर्ति त्रिदेवीं वदति कतिपयो यत् तदस्याऽसिरान्नो, दृष्टं स्पष्टं नवीनं सृजति कुवलयं रक्षति प्राप्तमेतत् । शत्रूणां दुर्मदानां हरति च कुपितं येन तेजोऽभिरामं, प्रारब्धेऽनेन युद्धे तदपि सरभसं कम्पते कोऽपरस्तु ॥२०॥ स जयति मण्डलिकनपः, सततं यदानमैक्ष्य दिक्करिणः । दूरं गताः सलज्जा, अनुनेतुं यद्यशोऽप्येतान् ॥२१॥ अथ सोनीसङ्ग्रामवंशवर्णनम् - बिभ्राणोऽन्तर्न दीनां स्थितिमतिवसुभृत् पोतयुक्तो गभीरः, सवेलो नाप्तपारो गुरुजिनकलितश्चारुलक्ष्मीसमेतः । श्रीसङ्घो यत्र मध्ये निवसति सततं बाह्यदेशे समुद्रस्तत् तीर्थं स्तम्भनाख्यं जगति विजयते स्तम्भनाधीशभक्तम् ॥२२॥ अव० – सङ्घपक्षे - अन्तर्मध्ये चित्ते दीनां स्थितिं न बिभ्राणः, समुद्रपक्षे - नदीनां । वसु- तेजो रत्नानि च । पोता- वहनानि बोलकाश्च । सती- शोभना वेला Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198