Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 181
________________ आ २०१४ सोऽथ स्वार्थकृते तदर्थिततये प्रौढं ददात्यन्वहं, शीलं रक्षति किन्त्वदः प्रतिभुवं तस्मान्न तेषां गृहे तत् तिष्ठेत् पुनरेति चाऽस्य निलये वाणीनिबद्धं सदा, येनाऽद्याऽपि तदन्वये गतभये संदृश्यते तद्द्वयम् ॥६९॥ अव० अन्योऽपि परार्त्तिहर्त्ता नरो निराधारं पालिताङ्गीकारभारं कञ्चन कुमारं सीदन्तं समीक्ष्य सन्तं साक्षिणं कृत्वा समादत्ते । तदनु तं प्रौढं विधाय स्वार्थकृतेआत्मधनार्थं, अत्र तादर्थ्ये चतुर्थी, अर्थिततये- धनवत्संहतये, सम्प्रदाने च चतुर्थीयं, ददाति, तथापि तद्गृहे स न तिष्ठति, वाणीनिबद्धत्वात् ॥६९॥ — चतुर्द्दशाब्दानि निरीक्ष्य धर्म - विच्छित्तिमीषद् हृदये विषण्णः । विज्ञप्य भूपं फरमाणपत्र - मासाद्य साधून् पुनरानयद् यः ॥७०॥ वरसिंगसुतः श्रीमान्, मेनकूकुक्षिसम्भवः । जज्ञे श्रीनरदेवाख्यो, निःशेषगुणभाजनम् ॥७१॥ भ्रात्राऽस्य धन्येन सपादलक्षं, बद्धं जनं चन्द्रपुरीसम(मु)त्थम् । धन्येन यन्मोचयता धनेन, चक्रे जगन्मुत्कलमत्र चित्रम् ॥७२॥ अव० मुदा हर्षेण कलम् ॥७२॥ विश्वोद्भवा कीर्तिवल्ली, सुवंशान् प्राप्य वृद्धिभाग् । मण्डपे यत् स्थिता भाति, तद् युक्तं गुणशालिनि ॥ ७३ ॥ अव० यत् कीर्तिवल्ली मण्डपे स्थिता भाति, तद् युक्तं, किं० विश्वेभ्यःसमस्तान्यजनेभ्य उद्भवा- जाता विश्वोद्भवा । अन्याऽपि वल्ली मण्डपे स्थिता यद् भाति तद् युक्तम् । किंल० वल्ली, विश्वा- पृथ्वी तस्यामुद्भवो यस्याः सा । किं०, गुणा- औदार्यादयः दवरकाश्च ॥७३॥ - चित्रं सङ्ग्रामगोत्रोत्था, शीघ्रं सदसि मार्गणैः । मिलिता फलिता जाता, विश्वव्यापिन्यसौ च यत् ॥७४॥ १७५ अव० सङ्ग्रामगोत्रोत्था असौ - कीर्त्तिवल्ली सदसि सभायां मार्गणैःयाचकैः सह मिलिता सती शीघ्रं फलिता जाता चाऽन्यद् विश्वव्यापिनी तच्चित्रम्। अन्या वल्लिः सङ्ग्रामस्य या गोत्रा - पृथ्वी तदुत्था सा सदसिमार्गणैः- सत्खड्गबाणैः मिलिता शीघ्रं फलिता विश्वव्यापिनी न भवति । तत्त्वतः सङ्ग्रामस्य यद् गोत्रं - नाम तदुत्था ॥७४॥ — Jain Education International For Personal & Private Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198