Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 176
________________ १७० अनुसन्धान-६३ तद् युक्तिमत्, परं साङ्कोऽयं निरङ्को - निष्कलङ्को नरसिंहसुतश्च तच्चित्रम् ||४०|| धीरासुतस्तु राजाख्यो, देवाकस्तनयोऽस्य सः । यः सङ्घनायकपदं, सर्वतीर्थेषु लब्धवान् ॥४१॥ यद्देवभवनं देवो ऽकारयत् स्ववसुव्ययैः । स्वभाव एष शालां तु, पौषधस्य तदद्भुतम् ॥४२॥ देवाकस्य सुताः सन्ति, चत्वारो धर्मवद्वराः । गोधा - सहस्त्रकिरणौ, श्रीवत्सः श्रीनिधिस्तथा ||४३|| तद् युक्तं यच्च गोधाख्यो, वहेत् पुण्यमनोरथम् । सहस्रकिरणः सङ्घ, वस्त्राणि परिधापयेत् ॥४४॥ अव० अन्योऽपि यो गोधो न च वृषभो भवति, स पुण्यं पवित्रं अन:शकटं रथं च वहति । तथा सहस्रकिरण:- सूर्य: सङ्घ- जनसमूहं वस्त्राणि परिधापयति ॥४४॥ ―― सुदर्शनभृत् श्रीवत्सः, श्रीनिधिः सङ्घनायकः । उपाध्यायपदोद्भूतः, श्लोकः सर्वैस्तु लेभिरे (सर्वैरलभ्यत) ॥४५॥ अव० श्रीवत्सः- कृष्णः सुदर्शनं चक्रं बिभर्ति, श्रीणां निधिः स सङ्घनायकः- समुदायस्वामी भवति । यथा उपाध्यायपदोद्भूतं श्लोकं सर्वेऽपि छात्रा लभन्ते ॥४५॥ गोधाख्यः श्रीजिनागारं धर्म्मशालां चकार यत् । 'पितेव जायते पुत्र', इति सत्यापयेद् वचः ॥४६॥ गोधासुतः पासदत्त - स्तौ गौरा - रणधीरौ । द्वितीयस्य तृतीयस्य, नेमिदत्तस्तु वर्त्तते ॥ ४७|| करमात्मजः कंडूया-भिधानो डुङ्गरोऽस्य तुक् । हीरादेवीप्रियाऽन्यायुग्, व्याधाख्यस्तु तदुद्वहः ॥४८॥ अव० उद्वहः- पुत्र ॥४८॥ 1 हीरादेवी प्रिया चाऽन्या च ताभ्यां युक्तयोः हीरादेवी - डुङ्गरयो सङ्ग्रामं डुङ्गरो यं य-ज्ज्ञापयत्यरिमण्डलम् । रक्षयेत् स्वजनव्यूहं, सोऽयं धर्मोऽस्य भूभृतः ॥४९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198