Book Title: Anusandhan 2011 02 SrNo 54
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
फेब्रुआरी २०११
१२५
स्पृहाध्वंसो यस्मिन्नहनि न मृषावागपि तदा कदाऽतस्त्रातः ! स्यां व्रतविततये निःस्पृहतमः ॥१३।। अहो ! दृष्टं कष्टं प्रकटमिह पुंसां परमुषामदत्तस्याऽऽदानान्महदघमिदं निश्चितमतः । व्रतादानेनाथाऽवधृतसुविधोऽहं तदखिलं यथा प्रत्याख्यायां त्रिजगदधिप ! त्वं कुरु तथा ॥१४॥ गृहाधीशादिष्टं श्रुतगदितदोषोज्झितगृहं गुहा वा गोत्राणां सघनगहनं वा पितृगृहम् । निषद्या या काचित् सुरनृपजनाज्ञाग्रहमनु व्रताबाधाय मे भवतु भगवा(व)न् ! सा वसतये ॥१५।। गृहस्थोऽर्थ्यः शय्यासनफलकदर्भाधुपधये स वा दद्याद् यावत् स[कल]मथ तद् ग्राह्यमृषिणा । परस्मिन् कालेऽस्मान्मतमिदमदत्तं मम पुनः तदाज्ञामप्रापाऽनुचितमुपभोगाय भवतात्(?) ॥१६।। स्वयं वा क्षेत्रेणाऽवधिरथ च कालेन विधृतः पुरे वा ग्रामे वा वसतिमुपभोक्तुं प्रथमतः । परीहारस्तस्मात् परमुचित एवाऽव्रतभिया मयाऽयं स्वाचारो भवति वहनीयो जिन ! कदा ? ॥१७॥ अदूष्यं चेद् भैक्ष्यं भवति न तथापि व्रतभृतः स्वभोगायाऽदत्वा स्वकुलगणसाम्भोगिकमुनीन् । अदत्तं चाऽदानादिदमपि मुनीन्द्रेण गदितं । ततस्तन्नेच्छेयं सममसमयः स्ताच्छुभतमः ॥१८॥ यतेर्भक्तिस्थानं स्वकुलगणसङ्घाज्जिनगृहं गणी वा ग्लानो वा गुरुरथ च शैक्ष्योऽप्यभिहितम् । अभक्त्या चैतेषां निजजठरदत्तं यदशनं भवेत् तच्चाऽदत्तं मम मुनिप ! मा भूदघमदः ॥१९।। जनेऽस्मिन् प्रत्यक्षा यदनु जनिता जीवितहृतः कियत्यः कीर्त्यन्ते कलहहननाद्यादिविपदः ।

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209