SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०११ १२५ स्पृहाध्वंसो यस्मिन्नहनि न मृषावागपि तदा कदाऽतस्त्रातः ! स्यां व्रतविततये निःस्पृहतमः ॥१३।। अहो ! दृष्टं कष्टं प्रकटमिह पुंसां परमुषामदत्तस्याऽऽदानान्महदघमिदं निश्चितमतः । व्रतादानेनाथाऽवधृतसुविधोऽहं तदखिलं यथा प्रत्याख्यायां त्रिजगदधिप ! त्वं कुरु तथा ॥१४॥ गृहाधीशादिष्टं श्रुतगदितदोषोज्झितगृहं गुहा वा गोत्राणां सघनगहनं वा पितृगृहम् । निषद्या या काचित् सुरनृपजनाज्ञाग्रहमनु व्रताबाधाय मे भवतु भगवा(व)न् ! सा वसतये ॥१५।। गृहस्थोऽर्थ्यः शय्यासनफलकदर्भाधुपधये स वा दद्याद् यावत् स[कल]मथ तद् ग्राह्यमृषिणा । परस्मिन् कालेऽस्मान्मतमिदमदत्तं मम पुनः तदाज्ञामप्रापाऽनुचितमुपभोगाय भवतात्(?) ॥१६।। स्वयं वा क्षेत्रेणाऽवधिरथ च कालेन विधृतः पुरे वा ग्रामे वा वसतिमुपभोक्तुं प्रथमतः । परीहारस्तस्मात् परमुचित एवाऽव्रतभिया मयाऽयं स्वाचारो भवति वहनीयो जिन ! कदा ? ॥१७॥ अदूष्यं चेद् भैक्ष्यं भवति न तथापि व्रतभृतः स्वभोगायाऽदत्वा स्वकुलगणसाम्भोगिकमुनीन् । अदत्तं चाऽदानादिदमपि मुनीन्द्रेण गदितं । ततस्तन्नेच्छेयं सममसमयः स्ताच्छुभतमः ॥१८॥ यतेर्भक्तिस्थानं स्वकुलगणसङ्घाज्जिनगृहं गणी वा ग्लानो वा गुरुरथ च शैक्ष्योऽप्यभिहितम् । अभक्त्या चैतेषां निजजठरदत्तं यदशनं भवेत् तच्चाऽदत्तं मम मुनिप ! मा भूदघमदः ॥१९।। जनेऽस्मिन् प्रत्यक्षा यदनु जनिता जीवितहृतः कियत्यः कीर्त्यन्ते कलहहननाद्यादिविपदः ।
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy