________________
१२४
अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२
अथोत्थाने स्थानेऽपि च वपुषि कुर्यां परिमृजां कदैवं देवेशाऽच्चितचरणवृत्तिर्मम भवेत् ॥६॥ धराजीवाधारो ध्रुवमिह च का जीवगणना तथा तेषां शस्त्रं खलु भवति मानुष्यकमलः । अयं योनिः केषाञ्चिदपि च विमृश्येति चतुरं यतेयैतत्यागे दिश मुनिपते ! तां मुनिदशाम् ॥७॥ यतः सत्यं सद्भ्यो हितमिति निरुक्त्या निगदितं प्रतीपं चासत्यं स्पृहयति न तत् सत्तमपुमान् । अतो मिथ्यावादादहमुपरमाणीति मृगये जगत्त्रातस्तात ! प्रथम शिवदायि व्रतमिदम् ॥८॥ श्रुते कस्मिन्नास्था प्रकृतिरपि का कौ सुरगुरू भवन्त्यस्य श्रोतुः प्रथममिति संचिन्त्य मनसा । वचो वाच्यं तथ्यं मितमितरथा मौनमुचितं कदाऽथो नाथ ! स्यां निपुणवचनोऽनेन विधिना ॥९॥ यतः क्रोधाध्मातः प्रकटयति कर्माणि पुरुषः परेषां पारुष्याकुलबहुलजल्पः प्रलपति । ततस्तावद् रोष व्रतविधृतये दुर्जनमिव प्रजह्यां जीवौघाभयद ! जगदुद्धारक ! कदा ? ॥१०॥ समस्तोऽपि त्रस्तो भवति भवभृत् सर्वभयतः ततो मायाधाम प्रविशति जिघृक्षुः सुखभरम् । समस्त्यैवैतत्तु स्फुटमनृतवाक्येष्टकचितं व्रतत्राणायेशाऽऽदिश मयि भयोन्मूलनमतः ॥११।। जनो धुन्वन्नङ्ग विकृतगतिको वक्रितमुखः सदःप्रीत्यै हास्यं प्रच(चि)कटयिषुर्जल्पति मृषा । ततोऽनपातः प्रभवति परत्रेह च भवे विभो ! तन्मां कुर्या व्रतगुणभृतं हास्यविमुखम् ॥१२॥ शरीरे सारे वा पुरुहपरिवारेऽपि भवभृद् भृशं लुब्धो वाञ्छन् सुखमनृतमेव व्यवहरेत् ।