Book Title: Anusandhan 2005 06 SrNo 32
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 37
________________ 32 अनुसन्धान ३२ ऊ:-रक्षणं तदुपलक्षितो 'गस्तु गातरि गन्धर्वे शब्दसङ्गीतयोरपि' इति विश्वशम्भु. (प. २५) वचनात् । गः शब्दः ऊगो दयोपदेशस्तत्र साधुः, तत्र साधौ इति ये ऊग्यस्तत्सम्बोधनं हे ऊग्य ! हे भर्तुः ! इनः-स्वामिनः । स्वामिन् । किंविधस्त्वं? यक्षः ई-लक्ष्मी अक्ष्णोति-व्याप्नोतीति यक्षः । पुनः हे चक्रेजनकतनय ! चक्रेणचक्ररत्नेन ई-शोभां जनयतीति चक्रेजनकोऽर्थाद्भरतनामा चक्रवर्ती स तनयः-पुत्रो यस्य स चक्रेजनकतनयः तत्सम्बोधनं हे चक्रेजनकतनय ! । हे अस्नानपुण्य ! अस्नाने स्नानाभावेन । 'पुण्यं तु सुन्दरे सुकृते पावने धर्मे ।' इति हैमानेकार्थ (प. ३७५) वचनात् । पुण्यः-सुन्दरः अस्नानपुण्यः । 'अनध्ययन- विद्वांसो, निर्द्रव्यपरमेश्वराः । अनलङ्कारसुभगा, पान्तु युष्मान् जिनेश्वराः ।१। इत्युक्तत्वात् । तत्सम्बोधने हे अस्नानपुण्य ! । हे स्निग्धच्छाय ! स्निग्धा असै(रू?)क्षा कोमला इति यावत्, 'छाया पंक्तौ प्रतिमायामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि' इति हैमानेकार्थ (प. ३६३) वचनात् । छाया प्रतिमा कान्तिर्वा यस्य स स्निग्धच्छायः, तस्सम्बुद्धौ हे स्निग्धच्छाय ! । किविधेषु उदकेषु ? अतरुषु अतन्ति सततं गच्छन्ति, अचि, अता:-प्राणिनस्तेषां । 'रु शब्दे रक्षणेऽपि च भये च' इतिवचनात् सौधाकलशात् (प. ३७) रु:-भयेभ्यस्तानि तेषु अतरुषु । किंविशिष्टं मां ? असतिं 'पूजायां तिः' इति विश्वशम्भु (प. ६१) वचनात् । ति:-पूजा तया सह वर्तते यः स सतिः, न सतिरसतिस्तं पूजादिरहितं दरिद्रंवराकमित्यर्थः । अत्र 'इवर्णादेरस्वे स्वरे यवरलं' इति मतान्तरमाश्रित्य पञ्चमीव्याख्याने अतरुषु अग्रे असति इत्यत्र उकारात्परे वकारे कृते लोकादिति च कृते अतरुषुवसति इति रूपसिद्धिः । हे गिरिराम ! वाण्यां मनोहर ! किं भूतेषु उदकेषु ? आश्रमेषु आ-सामस्त्येन श्रमः खेदो येभ्यस्तानि तेषु ।। नन्वत्र चतुस्त्रिंशदतिशयसंग्राहकातिशयचतुष्टयमध्ये क: केन पदेनोच्यते सच्यते वा इत्यभिधीयते-चित्कान्तेति पदेन ज्ञानातिशयः ।। स चापायापगमातिशयमन्तरेण न संभवति अतोऽनेनापायापगमातिशयोऽप्याक्षिप्तः ।२। तथा ऊग्येति गिरिरामेति वा पदेन वचनातिशयः ।३। भर्तुः इनेति पदेन पूजातिशयः ।४। इति चतुष्टयं ज्ञेयम् । श्रीऋषभदेववर्णनेन प्रथमोऽर्थः सम्पूर्णः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118