Book Title: Anusandhan 2005 06 SrNo 32
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
June-2005
35
पुण्योदकेषु पुण्याय तीर्थकरचैत्यवन्दनादिरूपाय उत्-उर्ध्वं अकंते - गच्छन्ति इति पुण्योदकास्तेषु पुण्योदकेषु । पुनः किं विशिष्टेषु साधुषु ? अतरुषु 'त: प्रैते निःफले शान्ते' इति विश्वशम्भु (प. ६०) वचनप्रामाण्यात् । न विद्यते तेभ्यः प्रेतेभ्य: 'रु: सूर्ये रक्षणेपि च । भये शब्दे च' इति सुधाकलश (प. ३७-३८) वचनप्रामाण्यात् । रु:-भयं येषां ते अतरवस्तेषु अतरुषु । अथवा तरुषु इति कोर्थः ? वृक्षोपमेषु अनेकगुणगणपक्षिकुलाश्रयभूतत्वात् । अथवा तरुषु अर्थात् कल्पवृक्षेषु निजसेवाहेवाकिनां मनोवाञ्छितदानात् । तथा हे स्निग्ध ! हे मित्र ! तद्वद्धितकारित्वात्।
कश्चित् कान्तेति काव्यस्य विचक्षणचमत्कृते । अर्थत्रयमिदं चक्रे गणिः समयसुन्दरः ॥
[द्वितीयोऽर्थः संपूर्णः ]
*
**
[अथ तृतीयोऽर्थः] अथ श्रीसूर्यदेववर्णनेन तृतीयमर्थमाह-अत्र कोपि जनो जगदुद्योतकारकं जगच्चक्षुर्भूतं परमोपकारविधायकं श्रीसूर्यं अस्तमयं दृष्ट्वा प्राहकश्चित्कान्ताविरहगुरुणा स्वाधिकार प्रमत्तः,
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु,
स्निग्धच्छायातरुषु वसर्ति रामगिर्याश्रमेषु ॥१॥ कश्चित्कान्तेत्यादि । हे इन ! हे सूर्य ! त्वं 'अस्तः क्षिप्ते पश्चिमाद्रौ' इति हैमानेकार्थ (प. १६०) वचनात्, अस्तं पश्चिमाद्रिं अस्ताचलं इति यावत्, मा अम-मा गच्छ मा अस्तमय सदा प्रकाशवान् भवेत्यर्थः । आशीर्वचनमेतत् इत्यन्वयः। किंविशिष्टः त्वं ? 'हि स्फुटार्थनिश्चयहेतुषु पादपूरणविशेषयोरपि' इति अव्ययार्थवृत्तौ उक्तत्वात् । हि-स्फुटं क:-प्रकाशस्तद्योगात् कः प्रकाशवानित्यर्थः । पुनः किंविशिष्टः त्वं ? चिनोति-अभिमतमर्थं निजसेवाभिधायिनामिति चित् । अथवा चित् अवधारणे । हे कान्ताविरह ! कान्तःमनोहरो विशिष्टफलदानात् उच्चो अविर्मेषो मेषराशिर्यस्य स कान्ताविः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118