Book Title: Anusandhan 2005 06 SrNo 32
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 57
________________ 52 अनुसन्धान ३२ ग्रन्थभूयस्त्वभयानात्र लिख्यते । अहं हेतुः । चकारः पुनरर्थे । या-लक्ष्मीः अयंशुभदैवं पाति तत् तस्मात् हेतोः त्वं आं द्रक्ष(क्ष्य)सि इत्यपि व्याख्येयम् । सत्साधु यथा स्यात् तथा ॥१०॥ कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रातपत्रां, तुच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आकैलाशाद्विसकिशलयच्छेदपाथेयवन्तः, सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥११॥ व्याख्या-कर्तुमित्यादि । उत्-ऊर्ध्वं-शिरसि शिलि(ली)न्ध्रोऽहिच्छत्रस्तदाकृतिवत् आतपत्रं-छत्रं यस्य सः, तस्य सम्बो० हे उच्छिलि(ली)न्ध्रातपत्र ! । अ:-कृष्णस्तद्वत् पराक्रमादिना श्रवणं-श्रुतिर्यस्य सः, तस्य सम्बो० हे अश्रवण !! यद्भवान् “महावुत्सवतेजसी"त्यनेकार्थवचनात् महो यस्यास्तीति मही-तेजस्वी सन्, “गर्जितो मत्तकुञ्जरे, गर्जितं जलदध्वाने" इत्यनेकार्थवचनात् गर्जितंउन्मत्तकुञ्जरं-सुभगं स्ववशत्वात्-सुन्दरं अथवा 'शसयोरैक्यात्' शुभं गच्छतीति शुभगं-शुभगतिकारकं उन्मत्तगतिनिषेधात् कर्तुं-विधातुं प्रभवति-समर्थो भवति, कोऽर्थः ? मत्तमतङ्गजोऽपि स्वबलेन वशीकर्तुं शक्यते इत्याशयः । तत्-तस्मात् हेतोः ते-तव आं-लक्ष्मी ईदृशीं श्रुत्वा-आकर्ण्य । कीदृशीमित्याह-अ:कृष्णस्तस्येयं अणि सा ई, तां ई-कृष्णसम्बन्धिनीमित्यर्थः । "नभं तु नभसा साक"मिति शब्दप्रभेदवाक्यात् नभे-आकाशे सीदन्ति-गच्छन्ति डप्रत्यये नभः(नभसः) सत्त्वात् नभसा-देवाः, ते सन्त्यस्य स नभसी-देवतायुक्तः, स चासौ भवांश्च नभसिभवान्, तस्मात् नभसिभवतः-देवतायुक्तात् भवतः । राजहंसा:राजश्रेष्ठाः प्रधाना-राजानः ईदृशाः सम्पत्स्यन्ते । कीदृशाः ?, इत्याह-पाथेयवन्त:सम्बलयुक्ताः । तथा सहः-समर्थः अयः-शुभदैवं येषां ते सहायाः । अथवा हयानां समूहो हायं, तेन सह विद्यन्ते ते सहाया:-अश्वसमूहयुक्ता इत्यर्थः । भवतः किम्भूतात् ?, आ-लक्ष्मीः तस्यां कैलाशः तस्मात् आकैलाशात् । अथवा कैलासं(शं)यावत् अतति सः, तस्य सम्बोधनं हे आकैलाशात् ।। विशिष्टा सा लक्ष्मीर्यस्य सः, तस्य सम्बो० हे बिस ! । किशलयवत्-मृणालवत् छा-निर्मला ई:-लक्ष्मीः, तथा दं-कलत्रं-दानं वा यस्य सः, तस्य सम्बो० हे किशलयच्छेद ! । किशलयवत्-नवपल्लववत् तरुणत्वात् छा-निर्मला ई:-देहशोभा येषां तानि ईनि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118