Book Title: Anusandhan 2005 06 SrNo 32
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
June-2005
पं. श्रीमानसागर विरचिता
मेघदूत-खण्डना
प्रसादो रविवद्यस्यास्तमःसंहारकारणे । सद्यः प्रसद्य सा देयात् विद्यां मे श्रीसरस्वती ॥१॥ विश्राणयतु सा श्रीणां श्रेणि श्रीजिनमण्डली । नखत्विषः पुरो यस्यां भानुः खद्योतपोतति ।।२।। श्रीमन्तः सूरयः सन्ति श्रीहीरविजयाभिधाः । क्रिया सुष्टु प्रिया येषां क्रियासुस्ते सुखश्रियम् ॥३॥ पद्मा पुरःस्थिता येषां प्रत्यक्षा च सरस्वती । सुसिद्धः सूरिमन्त्रोऽपि धर्मो येषामकैतवः ॥४॥ तान् समाहूतवान् भूमान् गुरूनिव सुरेश्वरः । रहस्यं सर्वशास्त्राणां जिज्ञासुर्यवनेश्वरः ॥५॥ तेषां गुणावली येन वर्णिता निजपर्षदि । मेघदूतनवीनाथै स्तं कवेऽकबरं नृपम् ।।६।। तस्याद्यं पद्यम्कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥
कश्चित्कान्तेत्यादि- चित्कान्त ! हे बुद्धिरम्य ! हे अविरह ! हे विरहवर्जित ! केन सह ? गुरुणा मातापित्रादिना । यदाह
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥१॥ अथाऽत्रैव श्रीअकबरनामाकर्षणपूर्वं सम्बोधनमाह- कः ककारः अन्ते यस्य स कान्तः । कान्तश्चासौ अः अकारश्च कान्ताः । अथ बवयोरैक्यात् कान्ताश्च बः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118