Book Title: Anekarth Sangraha Satik Part 02
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 425
________________ (४०८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः । अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने ॥ ३२५ ॥ कलहंसो राजहंसे कादम्बे नृपसत्तमे । कुम्भीनसस्त्वद्दौ कुम्भीनसी लवणमातरि ॥ ३९६ ॥ घनरसोऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्ण्य च चन्द्रहासोऽसिमात्र के || ३२७॥ ॥ अथ शान्ताः ॥ अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः । अध्युष्यतेऽधिवासः । निवासे यथा नागाधिवासे स ययौ क्षितीशः । धूपनादिभिः संस्कारे यथा - पुष्पाधिवासैः सुरभीकृतानि । अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने । अवध्वंसनमवध्वंसः ॥ ३२५ ॥ कलहंसो राजहंसे कादम्बे नृपसत्तमे । कलश्चासौ हंसश्च कलहंसः । आरक्त चंचुचरणा हंसा राजहंसाः । अतिधूसरपक्षाः कादम्बाः । द्वयोर्यथा - दुग्धधौतोऽपि किं याति वायसः कलहंसताम् । कुम्भीनसस्त्वहौ । कुम्भीव नासिकाऽस्य कुंभीनमः । अस्थूलाच्चेति ॥ ७-३-१६१ ।। नसादेशः । कुम्भीनसी लवणमातरि । गौरादित्वान्ङीः। लवणो राक्षसस्तस्य माता तत्र यथा - स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः । वनात्करमिवादाय सत्वराशिमुपस्थितः || ३२६ ॥ घनरसोst कर्पूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्ण्य च । घनस्य रसो, धनश्वासौ रसश्च, घनो रसोऽत्र वा, घनरसः । सान्द्र बह (हु) लम् । तत्र वाच्यलिङ्गः । द्रवो निर्यासः । मोरटं सप्तरात्रात्परं क्षीरं पीलुपर्णी ओषधिः । द्रवेऽप्सु च यथातडिदनललतानामिव घनरस एषोतिदाहकृद्विरसः । पतति घनाघनघनरसविसरो विसरन्ति च प्राणाः । चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे च । चन्द्रस्येव हासोऽस्य चन्द्रहासः । असिमात्रके यथा - चन्द्रहासोमुखे यस्ते पतितोऽतिप्रसादिनि । सशत्रुर्वाथमित्रम्बा समचर्त्तिपदं व्रजेत् ॥ ३२७ ॥ दशग्रीवकृपाणे

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542