________________
(४०८)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः । अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने ॥ ३२५ ॥ कलहंसो राजहंसे कादम्बे नृपसत्तमे । कुम्भीनसस्त्वद्दौ कुम्भीनसी लवणमातरि ॥ ३९६ ॥ घनरसोऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्ण्य च चन्द्रहासोऽसिमात्र के || ३२७॥
॥ अथ शान्ताः ॥
अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः । अध्युष्यतेऽधिवासः । निवासे यथा नागाधिवासे स ययौ क्षितीशः । धूपनादिभिः संस्कारे यथा - पुष्पाधिवासैः सुरभीकृतानि । अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने । अवध्वंसनमवध्वंसः ॥ ३२५ ॥ कलहंसो राजहंसे कादम्बे नृपसत्तमे । कलश्चासौ हंसश्च कलहंसः । आरक्त चंचुचरणा हंसा राजहंसाः । अतिधूसरपक्षाः कादम्बाः । द्वयोर्यथा - दुग्धधौतोऽपि किं याति वायसः कलहंसताम् । कुम्भीनसस्त्वहौ । कुम्भीव नासिकाऽस्य कुंभीनमः । अस्थूलाच्चेति ॥ ७-३-१६१ ।। नसादेशः । कुम्भीनसी लवणमातरि । गौरादित्वान्ङीः। लवणो राक्षसस्तस्य माता तत्र यथा - स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः । वनात्करमिवादाय सत्वराशिमुपस्थितः || ३२६ ॥ घनरसोst कर्पूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्ण्य च । घनस्य रसो, धनश्वासौ रसश्च, घनो रसोऽत्र वा, घनरसः । सान्द्र बह (हु) लम् । तत्र वाच्यलिङ्गः । द्रवो निर्यासः । मोरटं सप्तरात्रात्परं क्षीरं पीलुपर्णी ओषधिः । द्रवेऽप्सु च यथातडिदनललतानामिव घनरस एषोतिदाहकृद्विरसः । पतति घनाघनघनरसविसरो विसरन्ति च प्राणाः । चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे च । चन्द्रस्येव हासोऽस्य चन्द्रहासः । असिमात्रके यथा - चन्द्रहासोमुखे यस्ते पतितोऽतिप्रसादिनि । सशत्रुर्वाथमित्रम्बा समचर्त्तिपदं व्रजेत् ॥ ३२७ ॥ दशग्रीवकृपाणे