SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः (४०७) परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कपो यातुधाने पलङ्कषा तु किंशुके ॥३२०॥ गोक्षुरे गुग्गुलौ लाक्षारास्नातुण्डीरिकासु च । भूतवृक्षस्तु शाखोटे स्योनाकालवृक्षयोः ॥३२१॥ महाघोषो महाशब्दे स्यान्महाघोषमापणे । महाघोषा शृङ्गयोषध्यां राजवृक्षः पियालके ॥३२२॥ सुवर्णालुतरौ वातरुषः शक्रमरासने । वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे । तायें विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे । भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे ॥३२४॥ परितः । क्षयसमये समुपेत महाजले पृषततां याति । परिधावुपसूर्यके यथाबद्धभीमपरिवेषमण्डलः । परिवेषणे भोज्यनिक्षपणे यथा-रचयति परिवेषं शेषभोज्यस्य कैषा ॥ ३१९ ॥ परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । परिघुष्यते परिघोषः । पलङ्कषो यातुधाने । पलं कषति पलङ्कषः । बाहुलकात् खः । यातुधानो राक्षसः । पलङ्कषा तु किंशुके । गोक्षुरे गुग्गुलौ लाक्षारास्नातुं(मुं)डीरिकासु च । षट्स्वर्थेषु च ॥३२०॥ भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः । भूतानां वृक्षो भूतवृक्षः । त्रयोऽपि वृक्षाः ॥३२१॥ महा- . घोषो महाशब्दे । महांश्चासौ घोषश्च । महाघोषः । स्यान्महाघोषमापणे । महान् घोषोऽत्र महाघोषम् । महाघोषा शङ्गयोषध्यां । शृङ्गीनाम ओषधिः । राजवृक्षः पियालके । सुवर्णालुसरौ। राज्ञो वृक्षो राजवृक्षः । पियालको राजादनः ॥ ३२२ ॥ वातरुषः शक्रशरासने । वातूलोत्कोचयोश्चापि । वातेन रौति वातरूषः । कोरदृषेति साधुः । वातूलो वातसमूहः । उत्कोचो लंचा । विशालाक्षो महेश्वरे । ताक्ष्ये विशालनेत्रे च । विशालेऽक्षिणी अस्य विशालाक्षः । विशालनेत्रे वाच्यलिङ्गः । तत्र यथा-पद्मपत्रविशालाक्षी ।।३२३॥ वीरवक्षोऽर्जुनद्रमे । भल्लाते । वीराणां वृक्षो वीरवृक्षः । सकटाक्षस्तु कटाक्षिणि। धवट्टमे। सह कटाक्षैवर्तते सकटाक्षः। कटाक्षिणि वाच्यलिङ्गः ॥३२॥
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy