________________
(४०६) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
आम्राते खण्डपरशावानुकर्षोऽनुकर्षणे । रथस्याधोदारुणि चानिमिषः सुरमत्स्ययोः ॥३१६।। अनुतर्षोऽभिलाषे स्यात्तृषाचषकयोरपि । अलम्बुषश्छईनेऽलम्बुषा स्वापण्ययोषिति ॥३१७।। गण्डीयाँ किम्पुरुषस्तु किन्नरे लोकभिद्यपि । देववृक्षो मंदरादौ गुग्गुलौ विषमच्छदे ॥३१८॥ नन्दिघोषो बन्दिघोष स्यन्दने च किरीटिनः ।
परिवेषः परिवृतौ परिधौ परिवेषणेः ॥३१९।। रथस्याधोदारुणि च । अनुकर्षणम् अनुकृष्यते वा अनुकर्षः । रथस्याधोदारुणि यथा-अनुकर्षशादविचलतस्खलद्रथे रुधिरावमर्दन सकर्दमावनौ । अनिमिषः मुरमत्स्ययोः। न निमिषति अनिमिषः । “नाम्युपान्त्य” (५-१-५४) इति कः । द्वयोर्यथा-कदाचिदम्भोनिधिरिव उच्चैः-स्तननाभिरम्याः कृतानिमिषनयनविभ्रमाः सकन्दर्पाः सिषेवे वेलाविलासिनी ।।३१६॥ अनुतर्षों अभिलाषे स्यात्तषाचषकयोरपि । अनुतृष्यते अनुतर्षः । मद्येऽपि तत्र क्लीबः । सर्वेऽपि यथा-सोपचारमुपशान्तविचारं सानुतर्षपदेन । अलम्बुषश्छद्दने । अलति अलम्बुषः । अलेरम्बुषः, बाहुलकात् षत्वम् । छर्दनो दुर्योधनमित्रम् राक्षसः । अलम्बुषा स्वःपण्य(पण)योपिति । गण्डोर्या । गण्डीरी ओषधिः ॥३१७|| किम्पुरुषस्तु किन्नरे लोकभिद्यपि । कुत्सितः पुरुषोऽश्वमुखत्वात्किंपुरुषः । कुत्सिताः पुरुषा अस्मिन्निति वा । किन्नरे यथा-यत्रांशुकाक्षेपविलज्जितानां यदच्छया किम्पुरुषाङ्गनानाम्। लोकभिदि यथा-भारतं प्रथमं वर्षं ततः किंपुरुषं परम्।। देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे । देवानां वृक्षो देववृक्षः ॥ ३१८॥ नन्दिघोषो बन्दिघोषे स्यन्दने च किरोटिनः । नन्दी चासौ घोषश्व, नन्दीघोषोऽस्य वा नन्दिघोषः । द्वयोर्यथा-अर्जुनसमरमिव नन्दिघोषमुखरितदिगन्तरं मंचमारोह वासवदत्ता । परिवेषः परिवृतौ परिधौ परिवेषणे । परिवेषणं परिवेषः । परिवृतौ परिवेष्टने यथा कृतपरिवेषोऽप्युच्चैर्वेलावलयेन जलनिधिः