________________
चतुर्थः काण्डः
खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषितां ॥ ३१३ ॥ करणे वरुणास्त्रे च प्रतिष्कशः पुरोगमे । वार्त्ताहारे सहाये च 'पुरोडाशो हविर्भिदि ॥ ३९४ ॥ हृतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भ्राष्ट्र किशोरयोः || ३१५॥
(४०५)
पशु रस्य खण्डपशुः । शिवे राहौ भार्गवे च यथा-खण्डपशु सहेत कः । चूर्णलेपी सुधालेपकः || ३१२ || जोवितेशः प्रिये यमे । जीवितस्वामिजीवावो: । जीवितस्येशो जीवितेशः । जीवितस्वामिनि वाच्यलिङ्गः । प्रिये यमे च यथा जीवितेशवसतिं जगाम सा जीवातुजविनौषधम् । नागपाशस्तु योषितां करणे वरुणास्त्रे च । नागपाश इव नागानां पाशो वा नागपाशः । द्वयोयथा-तं बद्ध्वा नागपाशेन ॥ ३१३ ॥ प्रतिष्कशः पुरोगमे । वार्त्ताहारे सहाये च । प्रतिशति प्रतिष्कशः । वर्चस्कादित्वात् । वाच्यलिङ्गः । त्रिष्वपि यथा-ग्राममध्यप्रवेदयामि भव मे त्वं प्रतिष्कशः । पुरोडाशो हविर्भिदि । हुतशेषे सोमरसे चमस्यांपिष्टकस्य च । पुरो दास्यते पुरोडाशः । पृषोदरादित्वात्साधुः । हविर्भिदि हुतशेषे सोमरसे च यथा - वैतानेषु कृपीटयोनिषु पुरोडाशं वषट् कुर्वते ॥ ३९४ ॥ चमसी वर्त्तिः ।
॥ अथ षान्ताः ॥
अम्बरीषो नृपे सूर्ये युधि भ्राष्ट्रकिशोरयोः । आम्राते खण्डपरशौ । अमति अम्बरीषः । “अमेवर्रादिरितीषः " ( उ० ५५५ ) । भ्राष्ट्रे पुंक्लीबः । अन्यत्र पुंसि । नृपे यथा - अम्बरीषश्च नाभोगो बुभुजाते चिरं महीम् । किशोरो हयशावः॥३१५॥ आम्रातो वृक्षः । खण्डपरशुरीश्वरः । अनुकर्षो अनुकर्षणे ।
१. पच्चदशी तु पूर्णिमा । दर्शश्च पादपाशी तु खट्टिका यामुदाहृता ॥ शृङ्खला कटके वापि पुरोडाशो हविर्भिदि ।