________________
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥ ३०९ ॥ सहदेवी तु सर्पाक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः || ३१०॥ पतने चाश्रयाशस्तु वनावाश्रयनाशके । उपदंशोऽवदंशे स्यान्मेहनामययोरपि ॥ ३१२ || उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्र के । खण्डपर्शः शिवे राहौ भार्गवे चूर्णले पिनि ॥ ३१२ || सादम्बररोहिरोहिताश्वः || ३०८|| हरिश्चन्द्रनृपसुते यथा - ततः प्रविशति सुतारा रोहिताश्वश्च । सहदेवस्तु पाण्डवे ! सह दीव्यति सहदेवः । यथा - ततः प्रविशति अर्जुनेनादिश्यमानमार्गों नकुलसहदेवाभ्यां सह राजा युधिष्ठिरः । सहदेवा बलादण्डोत्पलयोः शारिवौषधे । सहदेवी तु सर्पाक्ष्याम् । विषयभेदेन शोणादित्वाड्डीः । चत्वारोऽपि गुल्मभेदाः ॥ ३०९ ॥
(४०४)
अथ शान्ताः ।
I
अपदेशस्तु कारणे । व्याजे लक्ष्येऽपि । अपदिश्यते अपदेशः । कारणे यथाविनापदेशं बालोऽपि । व्याजे यथा - रक्षापदेशाद्गुरुहोमधेनोः । लक्ष्यं वेध्यम् । अपभ्रंश भाषाभेदापशब्दयोः । पतने च । अपभ्रश्यति अपभ्रंशनम्वा अपभ्रंशः । त्रिष्वपि यथा- अपभ्रंशपराचीना वर्णव्यत्ययहारिणः । नृपा इवैते कवयः || ३१०|| आश्रयाशस्तु वह्नावाश्रयनाशके । आश्रयमश्नाति आश्रयाशः । आश्रयनाशके वाच्यलिङ्गः । वह्नौ यथा-परितः प्रसभेन नीयमानः शरवर्षैरवशायमाश्रयाशः । उपदंशोऽवदंशे स्यान्मेहनामययोरपि । उपदिश्यते उपदंशः । अवदंशश्च - क्षणम् । मेहनं मेढ्रम् | आमयो रोगः । अवदंशे यथा - स्वादुंकारं कालखण्डोपदंशैः क्रोष्टाडिम्बं व्यष्वणत् व्यस्वनच्च ॥ ३११ ॥ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । उपस्पृश्यते उपस्पर्शः । त्रिष्वपि यथा-जलोपस्पर्शपूर्वकम् । खण्डपर्थः शिवे राहौ भार्गवे चूर्णछेपिनि । खण्डामलकमैषज्ये । खण्डः
1