________________
चतुर्थः काण्डः
(४०३)
जलचत्वरे पंचाङ्गे जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च धामार्गवस्तु घोषके ॥३०५।। अपामार्गेऽप्यथ परिप्लवावाकुलचञ्चलो । पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥३०६॥ शूद्रायां विप्रतनये तनये च परस्त्रियाः । पुटग्रीवस्तु गर्गर्या' ताम्रस्य कलशेऽपि च ॥३०७॥ बलदेवस्तु कालिन्दीकर्षणे मातरि श्वनि ।
बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥३०८॥ चत्वरे पश्चाङ्गे । जले बिल्वमिव जलबिल्वः । कर्कट कुलीरः ॥ ३०४ ॥ जलचत्वरं जलचतुष्पथम् । पञ्चाङ्गः कच्छपः । जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च । जीवं जीवयति जीवंजीवः, बाहुलकात् खः। धामार्गवस्तु घोषके । अपामार्गेऽपि । धाम इत्यति धामार्गवः । कैरवेति साधुः । घोषक ओषधभेदः ॥ ३०५ ॥ अथ परिप्लवावाकुलचञ्चलौ । परिप्लवते परिप्लवः । वाच्यलिङ्गः । द्वयोर्यथा-मत्कुणाविव पुरः परिप्लवौ सिन्धुनाथशयने निषेदुषः । पराभवस्तिरस्कारे नाशे । पराभवनं पराभवः । द्वयोर्यथा-व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु येन मायिनः । पारशवोऽयसि । शूद्रायां विप्रतनये तनये च परस्त्रियाः । परशवे इदं, परशव्यन्तस्य विकारः पारशवः । "परशव्याद्यलुक्चेत्यण (६-२-४०) यलुक्च । परस्त्रिया अपत्यम्वा । "परस्त्रियाः परशुश्चावणे" (६-१-४०) इत्यण् । अयसि पुंक्लीवः ।। ३०६॥ “शूद्रायां विप्रतनय” इति यः । शूद्रायां विप्रेण जन्यते । पुटग्रीवस्तु गर्गताम्रस्य कलशेऽपि च । पुटवद्ग्रीवास्य पुटग्रीवः ॥ ३०७ ॥ बलदेवस्तु कालिन्दीकर्षणे मातारि श्वनि । बलेन दीव्यति बलदेवः । कालिन्दीकर्षणे यथा- स्वस्थीभूतो बलदेवोऽप्युदस्तायोग्रलाङ्गलः । बलदेवा त्रायमाणा । त्रायमाणा ओषधिः । रोहिताश्वो हुताशने हरिश्चन्द्रनृपसुते । रोहिताख्यो मृगोऽश्वो वाहनमस्य रक्तवर्णो वा अश्वोऽस्य रोहिताश्वः । हुताशने यथा-रभ