SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ (४०२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः कृपाणलतिकायाश्चानुभावो भावसूचने ।। प्रभावेनिश्चयेऽथापहवः स्नेहापलापयोः ॥३०२॥ अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि । आदीनवः पुनर्दोषे, परिक्लिष्टदुरन्तयोः ॥३०३।। उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥३०४॥ ... “अथ वान्ताः " अनुभावो भावसूचने प्रभावे निश्चये । अनुभाव्यतेऽनेन अनुभावः । घः । अनुभवनम्वा, बाहुलकाद्घञ् । रत्यादीन् भावान् सूचयति भावसूचनः कटाक्षादिः । तत्र यथा-विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायीभावो रसः। प्रभावे यथा-तवानुभावोयमवेदि यन्मया । निश्चये यथा-महानुभावाः सततं धम्मै कनिरताः स्थिराः । अपह्नवः स्नेहापलापयोः । अपह्नवनमपह्नवः, अनाश्वासेऽपि, त्रिष्वपि यथा-अप्यन्वभूदविततां सह पांशुकेलिं मापह्नवं मनसि मित्र मनाक् निधास्त्वम् ।। ३०२ ॥ अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि । अभिषयते अभिषवः, क्रतो यथा-ऋत्विजोऽत्राभिशंसंति सोमाभिषवपावनाः । मद्यसन्धानस्नानयोर्यथा-अभिषवसक्तोप्यमदो द्विजराजो निष्कलङ्कजडभावः । आदोनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः । आदीयते आदीनवः । कैरवेति ॥ (उ० ५१९) ॥ साधुः । त्रिष्वपि यथा-यद्वासुदेवेनादीनमनादीनवमीरितम् ॥३०३॥ उपप्लवौ राहूत्पातौ । उपप्लवते उपप्लवः । द्वयोर्यथाददृशाते जने नाथ तौ तिरस्कृततेजसौ । उपप्लवपरिक्रान्तौ सूर्याचन्द्रमसाविव। कुशीलवस्तु चारणे। प्राचेतसे याचके च । कुत्सितं शीलं वाति, कुश्या लुनाति वा कुशीलवः । चारणे नटे यथा-कथं प्रक्रान्तमेव कुशीलवैः । प्राचेतसो वाल्मीकिः, याचकोऽर्थी, तत्र वाच्यलिङ्गः । जलबिल्वस्तु कर्कटे । जल १. चौरकर्मणि ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy