SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः (४०१) यवफलो मांसिकायां कुटजत्वचिसारयोः। 'वायुफलं तु जलदोपले शक्रशरासने ॥२९८॥ वातकेलिः कलालापे पिङ्गानां दन्तलेखने । विचकिलो दमनके मल्ल्यामथ बृहन्नलः ।।२९९॥ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले 'हस्तिमल्लः सुरद्विपे ॥३०॥ विघ्नेशे हलाहलस्तु हयलालोरगे विषे । ज्येष्ठ्यां च हरिताली दुर्वागगनरेखयोः ॥३०॥ यववत्फलति वा यवफलः । वायुफलं तु जलदोपले शक्रशरासने । वायुना फलति वायुफलम् ।।२९८॥ वातकेलिः कलालापे षिड्गानां दन्तलेखने । वातवत् केलिरस्य वातकेलिः । कलालापे हृद्यभाषिणि वाच्यलिङ्गः । षिड्गानां दन्तलेखने रोध्रादौ शोधनमात्रे वा । विर्चाकलो दमनके मल्ल्यां। विच्यते विचकिलः, 'स्थण्डिलेति' (उ. ४८४) साधुः । मल्ल्यां यथा-मन्दारे यदनादरी विचकिलोपान्तेऽपि सन्तप्यते । अथ बृहन्नलः । महापोटगले पार्थे । बृहंश्चासौ नलश्च, बृहंतो नला अस्येति वा बृहन्नलः ॥२९९॥ सदाफल उदुम्बरे । नालिकेरे स्कन्धफले । सदाफलति सदाफलः । त्रयोऽपि वृक्षाः । हस्तिमल्लः सुरद्विपे । विघ्नेशे । हस्तिषु मल्लो हस्तिमल्लः । सुरद्विपे यथा-सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥३००॥ विघ्नेशे यथा-विघ्नानभिघ्नन् सोपघ्नान् हस्तिमल्लः सदास्तु वः । हलाहलस्तु हयलालोरगे विषे । ज्येष्ठ्यां च । हलति जठरं हलाहलः । “मुरलोरलेति साधुः । (उ. ४७४) विषे पुक्लीबः । हयलालोरगो हरमेखलाप्रयोगेण हयलालया कृतः सर्पः । तत्र विषे च यथा-कस्य सह्यो हलाहलः । ज्येष्ठी गृहगोधिकाभेदः । हरिताली दूर्वागगनरेखयोः । कृपाणलतिकायां च । हरितां नीलत्वमलति हरिताली ॥३०१॥ १ रजस्वला पुष्पवत्यां रजस्वलस्तु सेरिमे। वायु.। . ...... - २ सौवर्चलं सुवर्चि के । शूलरुङनाशके चाथ हस्ति ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy