________________
(४००) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
मदेनाऽव्यक्तवचने महानीलो मणेभिदि । नागभेदे भृङ्गराजे महाबलो बलीयसि ॥२९५ । वायौ महाबलं सीसे महाबला बलाभिदि । मणिमाला हारे स्त्रीणां, दशनक्षतभिद्यपि ॥२९६॥ मुक्ताफलं घनसारे मौक्तिके लवलीफले। . मृत्युफलो महाकाले, मृत्युफली कदल्यथ ॥२९७॥
मदकलः। मदिद्विपे मदवति द्विपे यथा-मनसिजमदकलमांसलकुम्भतटैस्तो स्तनौ तन्व्याः । प्रसरति केसरिणि मधावधिक कान्ति कथं धत्ताम् ॥२९४।। मदेनाव्यक्तवचने वाच्यलिङ्गः । तत्र यथा-मदकलमधुपकुलाकुलकरटतटः सोऽवताद्गणेशो वः । विधिना विघ्ननिवारणलिखितललाटाक्षरप्रशस्तिरिव । महानीलो मणेभिदि । नागभेदे भृङ्गराजे । महांश्चासौ नीलश्च महानीलः । मणेभिदि यथा-महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे । नागभेदः सर्पभेदः । भृगराजः केशरञ्जनः । महाबलो बलीयसि वायौ । महबलमस्य महाबलः । बलीयसि वाच्यालिङ्गः । तत्र यथा सैष भीमो महा बलः ॥२९५॥ महाबलं सीसे । सीसं नागम् । महाबला बलाभिदि । बलाभित् ओषधिः । मणिमाला हारे स्त्रीणां दशनक्षतभिधपि । मणीनां मणीनामिवमाला मणिमाला । स्त्रीणां दशनक्षतभिदि यथा-अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति सुन्दरि कुसुमायुध-- शास्त्रपण्डितं रमणम् ॥२९६॥ मुक्ताफलं धनसारे मौक्तिके लवलीफले । मुक्ताख्यं फलं मुक्ताफलमिव वा मुक्ताफलम् । मौक्तिके यथा-मुक्ताफल स्थूलतमान् स्तनेषु । मृत्युफलो महाकाले । मृत्यवे फलमस्य भक्षकाणां मृत्युफलः, महाकालः किम्पाकवृक्षः । मृत्युफली कदल्यथ । मृत्यवे फलमस्याः स्वस्यैव मृत्युफली । 'असम् भस्त्राजिनैकशण-पिण्डात्फलात' (२।४।५७) इति डी:॥२९७॥ यवफलो मांसिकायां कुटजत्वचिसारयोः। यववत्फलमस्य