________________
चतुर्थः काण्डः
(३९९) 'दलामलं पुनर्दमनके मरुबकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥२९१॥ परिमलो विमर्दोत्थहृद्यगन्धे विद ने। 'पोटगलो नले काशे झषे बहुफलः पुनः ॥२९२॥ नीपे बहुफला फल्गौ भस्मतूलं पुनहिमे । ग्रामकूटे पांशुवर्षे भद्रकाल्यौषधीभिदि ॥२९३॥ गन्धोल्यां हरपत्न्यां च, महाकालो महेश्वरे ।
किम्माके गणभेदे च, मदकलो मदिद्विपे ॥२९४॥ डीः (२।४।५७।)। जलाश्चलं तु शैवाले स्वतश्च जलनिर्गमे । जलस्याउचलमिव जलाञ्चलं, शैवाले पुक्लीबः ॥२९०॥ दलामलं पुनर्दमनके मरुबकेऽपि च । दलेष्वमलं दलामलं । ध्वनिलाला तु वल्लक्यां वेशुकाहलयोरपि । ध्वनि लालयति ध्वनिलाला ॥ २९१ ॥ परिमलो विमर्दोत्थहृद्यगन्धे विमईने । परिमलते परिमलः, विमोत्थहृद्यगन्धे यथा- यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणां । विमदने यथा-स्तनपरिमलमीलल्लोचनान्तां नतांगीं । परिशीलनेऽपि यथा-सतां परिमलान्नित्यं स्वरूपमुपजायते । पोटगलो नले काशे झषे । पोटेन संश्लेषेण गलति पोटगलः । बहुफल: पुनः नोपे । बहूनि फलान्यस्य बहुफलः ॥२९२॥ बहुफला फल्गौ । फल्गुरोषधिः । भस्मतूलं पुनहिमे ग्रामकूटे पांशुवर्षे । भस्मरूपं तूलमस्मात् , भस्म तूलति वा भस्मतूलम् । ग्रामकूट उत्कुरुटिका । भद्रकाल्यौषधीभिदि । गन्धोल्यां हरपत्न्यां च । भद्रा चासौ काली च भद्रकाली ॥ २९३ ॥ गन्धोली क्षुद्रजन्तुः । महाकालो महेश्वरे । किंपाके गणभेदे च । महां३चासौ कालश्च महाकालः । महेश्वरे यथा-अप्यन्यस्मिन् जलचर महाकालमासाद्य काले । मदकलो मदिद्विपे। मदेनाऽव्यक्तवचने। मदेन कलो
१ चकवालेऽद्रिमदे स्याचकवाल तु मण्डले । दलाप० । १ पुष्पफलः पुनाम्याम्टयां च पित्यके । पोट ।