________________
(३९८)
अनेकार्थसंग्रह; सटीक :: द्वितीयो विभागः
अङ्कपाली परीरम्भे स्यात्कोट्यामुपमातरि । उलूखलं गुगुलोदुखले 'कलकलः पुनः ॥२८७॥ कोलाहले सजरसे कन्दरालो जटिद्रुमे । गईभाण्डेऽप्यथ कमण्डलू पर्कटिकुण्डिके ॥२८८॥ कुतूहलं शस्तेऽद्भुते खतमालो बलाहके । धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः ॥२८९॥ गन्धफली तु प्रियङ्गौ चम्पकस्य च कोरके ।
जलाश्चलं तु शैवाले स्वतश्च जलनिर्गमे ॥२९॥ अङ्कपाली परीरम्भे स्यात् कोटयामुपमातरि । अङ्के पाल्यते स्वरेभ्यः (१।३।३०) इति इ प्रत्यये यामङ्कपाली । परीरम्भे यथा-वितरति कमितुर्घर्मितस्याङ्कपालीम् । कोटिरग्रभागः । उपमाता धात्री । उलूखल गुग्गुलोदूखले । उदुवै खं बिलमस्य उलूखलं । पृषोदरादित्वात् । उदूखले यथाउल्लूखलं तन्दुलखण्डनेन । कलकलः पुनः । कोलाहले सर्जरसे। कल्यते कलकलः, अदुपान्त्यरुद्भ्यामश्चात इत्यप्रत्ययो द्वित्वञ्च । (उ.१४) ॥२८७॥ कोलाहले यथा-शणवन् रजनिचरसेना कलकलम् । कन्दरालो जटिद्रुमें गर्दभाण्डेऽपि । कन्दरां लाति-कन्दरालः द्वावपि वृक्षविशेषौ । अथ कमण्डलू पर्कटिकुण्डिके । कं पानीयमनित्यस्मिन् कमण्डलुः । गृहल्विति साधुः । (उ. ८२४) ॥ पर्कटी प्लक्षः, तत्र पुसि । कुण्डिकायां पुक्लीवः । तत्र यथा-अशेषतीर्थोपहृताः कमण्डलोः । ।।२८८॥ कुतूहलं शस्तेऽद्भुते । कुत्सितं तोहति कुतूहलम् । मुरलेति साधुः (उ० ४७४) अद्भुते यथा-कुतूहलाविष्टतया तदानीं । खतमालो बलाहके । धूमे । खेतमाल इव खतमालः । अथ मण्डशैलोऽद्रिच्युतस्थूलाश्ममालयोः । शैलस्य गण्ड इव गण्डशैलः । राजदन्तादित्वात् । (३।१।१४९) द्वयोर्यथा-अस्मिन् भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ॥२८९॥ गन्धफली तु प्रियङ्गो चम्पकस्य च कोरके । गन्धेन युक्तं फलमस्याः गन्धफली । असम्भस्त्रेति १ उलूखली दन्तच्छिद्रमेकाष्ठीलोम्बकौषधे ।
एकाष्ठीला तु पाठायां भवेत् कलकल: पुनः ॥