________________
(३९७)
चतुर्थः काण्डः समाहारस्तु संक्षेप एकत्रकरणेऽपि च । समुद्रारुहभेदे सेतुबन्धे तिमिङ्गिले ॥ २८४ ॥ सालमारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ २८५ ॥ अतिबलः स्यात् प्रबलेऽतिबला तु बलाभिदि । अक्षमाला त्वक्षसूत्रे वशिष्ठस्य च योषिति ।।२८६॥
चरति सहचरः । झिन्टी ओषधिः । तत्र स्त्रीपुसः । वयस्ये वाच्यलिङ्गः । तत्र यथा -रात्रौ द्वित्रैः सह सहचरैः सेवते तद्विपक्षः । पल्यामपि, तत्र तु स्त्रियां यथा-समन्तादुत्तालैः सुरसहचरी चामरमरुत्तरङ्गैः ॥ २८३ ॥ समाहारस्तु संक्षेप एकत्रकरणेऽपि च । समाहियते समाहारः संक्षेपे यथा-स समाहारतोऽभ्यधात् । एकत्रकरणे यथा-व्यधादेतां वेधा विधुमधुसुधासीधुसुहृदां समाहारं कृत्वा कथमितरथायं गुणगणः । समुद्रारुडभेदे सेतुबन्धे तिमिङ्गिले । समुद्रमियति समुद्रारुः । भृमृतृत्सरीति वः बहुवचनादुः पुंसि । (उ. ७१६) ॥२८४॥ सालामारस्तरौ हिंगौ । सालं मारयति सालमारः । सुकुमारस्तु कोमले । पुण्ड्रेक्षौ । सुष्टु काम्यते सुकुमारः । कमे रत उच्च इति आरः (उ. ४०९)। कोमले वाच्यलिङ्गः तत्र यथा-सुकुमारमहो लघीयसां हृदयम् । सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः । सूत्र धरति सूत्रधारः । शिल्पिभेदे यथा-देवः शिवस्त्रिभुवनस्थितिसूत्रधारः । नटे यथा-दशमुखवधनाट्यसूत्रधारो रघुपतिरस्य च पारिपार्श्विकोऽहम् । २८५॥ अथ लान्ताः । अतिबलः स्यात् प्रबले । अतिशयेन बलमस्य अतिबलः, वाच्यलिङ्गः । अतिबला तु बलाभिदि। बलाभित् औषधिविशेषः अक्षमाला त्वक्षसूत्रे वसिष्ठस्य च योषिति । अक्षाः पद्मबीजानि तेषां माला अक्षमाला । न क्षमां पृथिवीं लाति वा समामित्वात् , द्वयोर्यथा-रेजे वसिष्ठलीलेव मुनिमालाक्षमालया ॥२८६॥