________________
अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः विश्वम्भरातु मेदिन्यां विभाकरोऽग्निसूर्ययोः। .. विश्वकद्वस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ २८० ॥ वीरभद्रो वीरणेऽश्वमेधावे वीरसत्तमे । वोरतरो वीरश्रेष्ठे शरे वीरतरं पुनः ॥ २८१ ॥ वीरणे वोतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दाघाटे राजकीरमयरयोः ॥ २८२ ।। शतपत्रन्तु राजीवे सम्प्रहारो गतौ रणे ।
सहचरः पुनझिण्ट्यां वयस्ये प्रतिबन्धके । २८३ ॥ . करः साम्प्रतं वर्तते तयोः । वक्रनको खलशुकौ । वक्र नक्र नासिकाऽस्य वक्रनक्रः । खले वाच्यलिङ्गः । विश्वम्भरोऽच्युतेन्द्रयोः। विश्वबिभर्ति विश्वम्भरः । भृवृजीति खः (५-१-११२)। अच्युते यथा त्वमेव विश्वम्भरविश्वमीशिषे ॥ २७९ ॥ विश्वम्भरा तु मेदिन्यां । यथा-विश्वम्भरा भगवती भवतीमसूत । विभाकरोऽनिसूर्ययोः । विभां करोति विभाकरः । संख्याहर्दिवेति टः (५-११०२) । सूर्ये यथा-बतबत्त लसत्तेजःपुञ्जो विभाति विभाकरः। विश्वकद्वस्तु मृगयाकुक्कुरे पिशुने ध्वनौ। विश्वं कत् कुत्सितं द्रवति विश्वकद्रुः (विश्वकद्रू :) । हरिपीतेति द्रुः । पिशुने वाच्यलिङ्गः । शेषयोः पुंसि ॥ २८० ।। वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे । वीरश्वासौ भद्रश्च वीरभद्रः । वीरणं तृणभेदः । वीरसत्तमे । वाच्यलिङ्गः । वीरतरो वीरश्रेष्ठे, शरे । प्रकृष्टो वीरो वीरतरः, वीरान् तरति वा । वीरश्रेष्ठे वाच्यलिङ्गः । वीरतरं पुनः । वोरणे । बाहुलकात् क्लीवे ।। २८१॥ वीतिहोत्रस्तु दिवाकरहुताशयोः। वीतयोऽश्वा होत्रं वाहनं हव्यं वाऽस्य वीतिहोत्रः । शतपत्रो दाघाटे राजकीरमयरयोः । शर्त पत्राण्यस्य शतपत्रः । दार्वाघाटः पक्षिभेदः ॥२८२॥ शतपत्रन्तु राजीवे । यथा-कम्पेन मूर्ध्नः शतपत्रयोनिम् । सम्प्रहारो गतौ रणे । सम्प्रहरणं सम्प्रहारः । सम्प्रहरन्त्यत्र वा । बाहुलकाद्घञ् । रणे यथा-सम्प्रहारे ग्रहरणैः, प्रहाराणां परस्परं । सहचरः पुनझिण्ड्यां वयस्ये प्रतिबन्धके । सह