SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ चतुर्थः का (३९५) महामात्रः प्रधाने स्यादारोहकसमृद्धयोः । मणिछिद्रा तु मेदायामृषभाख्यौषधावपि ॥ २७६ ॥ रथकारस्तक्षि(क्ष)णि स्यान्माहिण्यः करणीसुते । रागसूत्रं पसूत्रे तुलासूत्रेऽपि च क्वचित् ॥ २७७ ॥ लम्बोदरः स्यादुद्धमाते प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥२७८ ॥ द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः । वक्रनको खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः ।। २७९ ॥ महती मात्रा यस्य महामात्रः । आरोहके यथा-महामात्रैरिब व्यालाः । मणिच्छिद्रा तु मेदायामृषभास्यौषधावपि । मणेरिव च्छिद्रमस्या मणिच्छिद्रा । मेदा शालपर्णीनामौषधिः ॥ २७६ ॥ रथकारस्तक्षणि स्यान्माहिष्यः करणीसुते । रथं करोति रथकारः । क्षत्राद्वैश्यायां जातो माहिष्यः, वैश्यात्शूद्रायां जातो करणी, तयोः सुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् । रागेण युक्त सूत्रं रागसूत्रं । तुलासूत्रे कचिल्लल्यानुसारेण ॥ २७७ ॥ लम्बोदरः स्यादुद्ध्माते प्रमथानाश्च नायके । लम्बमुदरमस्य लम्बोदरः । उद्गतो मातो वायुरस्य उद्धमातः तत्र वाच्यलिङ्गः । प्रमथानां गणानां नायके यथा-हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैम्ममैकावली शिल्पे वागधमर्णकस्य भवतो लकेन्द्रनिद्रारसः । लक्ष्मीपुत्रो हये कामे । लक्ष्म्याः पुत्रो लक्ष्मीपुत्रः। व्यवहारः स्थितौ पणे । द्रुभेदे । व्यवलियते व्यवहारः । स्थितौ यथा-आहारे व्यवहारे च, त्यक्तलजः सुखी (सदा) भवेत् ॥ २७८ ॥ अथ-व्यतिकरो व्यसनव्यतिषङ्गयोः । व्यतिकीर्यते व्यतिकरः । व्यसने यथा-धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति । व्यतिषङ्गः सम्बन्धस्तत्र यथा-भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः(रीताः)। संकरवृत्तान्तयोरपि । क्रमेण यथा-त्वदर्थीयक्रव्यात् कपिकुलकबन्धव्यतिकरैः करालेयं भूमि गनभयमद्यापि तनुते। रामार्जुनव्यति
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy