________________
(३९४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
वर्धापके बलभद्रस्त्वनन्ते बलशालिनि । बलभद्रा कुमार्या स्यात् त्रायमाणौषधावपि ॥ २७३ ।। 'वार्वटीरस्त्रपुण्याम्रास्थ्यडरे गणिकासुते । 'बिन्दुतन्त्रं पुनः शारिफलके चतुरङ्गके ॥ २७४ ॥ महावीरोऽन्तिमजिने परपुष्टे जराटके ।
ताक्ष्र्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥२७५ ।। पीताम्बरोऽब्धेर्यदवाप लक्ष्मीम् । पूर्णपात्रन्तु, जलादिपूर्णभाजने वपके । पूर्ण च तत् पात्रञ्च पूर्णपात्रम् । जलादिपूर्णभाजने यथा-शशधरधवलाभं पूर्णपात्रं वहन्ती ।। २७२ ॥ वर्द्धनं वर्द्धस्तस्याप्तिरापको वर्धापकः । नाम्नि पुंसि चेति णकः । (५-१-१२१) । उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते वस्त्रमाल्यादि स वर्धापकः । तत्र यथा-पूर्णपात्रमियं तस्मै मैथिली कल्पयिष्यते । बलभद्रस्त्वनन्ते बलशालिनि । बलेन भद्रो बलभद्रः । बलशालिनि वाच्यलिङ्गः। अनन्ते हलायुधे यथा-बलभद्रप्रलम्बघ्नौ पक्षाविव सितासितौ । बलभद्रा कुमार्या स्यात् त्रायमाणौषधावपि । बलेन भद्रमस्याः बलभद्रा ॥ २७३ ॥
वावटीरस्त्रपुण्याम्रास्थ्यडरे गणिकासुते । वृणोति वावटीरः । जम्बीरेति साधुः। बिन्दुतंत्र पुनः शारिफलके चतुरङ्गके । बिन्दवस्तन्यन्तेऽस्मिन् बिन्दुतन्त्रम् । हुयामेति त्रः । चतुरङ्गकं धूतविशेषः ॥ २७४ ॥ महावीरोऽन्तिमजिने परपुष्टे जराटके । तार्ये कर्के पवौ शूरे सिंहे मखहुताशने । महांश्चासौ वीरश्च महावीरः । जराटक ओषधिः । तायो गरुडः । कर्कः श्वेतोऽश्वः । पविर्वज्रम् । मखहुताशनो होमाग्निः । अन्तिमजिने यथा-अर्हते योगिनाथाय महावीराय तायिने । शूरे यथा-तस्मै कः प्रथमाय मानिषु महावीराय वैरायते ॥ २७५ ॥ महामात्रः प्रधाने स्यादारोहकसमृद्धयोः।
१ बह्मपुत्रो नदीभिदि क्षेत्रसङ्गरयोरपि । वावटी० । २ वारकीरो भारग्राहिण्याराधिततुरङ्गमे । यूकायां वेणिवेषियां भूत्रयीमुखरयोरपि ॥ विदु.॥