________________
-
-
चतुर्थः काण्डः
(३९३) मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे ।। २६८ ।। परिपाटयां परिसरः प्रान्त भूदैवयोमतो । पक्षचरो यूथभ्रष्टपृथक्चारिगजे विधौ ॥ २६९॥ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नालिकेरे पात्रटोरस्त्वपव्यापारमन्त्रिणि ॥ २७० ॥ लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः। पारावारः पयोराशौ पारावारं तटद्वये ॥ २७१ ॥ पारिभद्रस्तु मन्दारनिम्बौ पीताम्बरोऽच्युते ।
नटे च पूर्णपात्रन्तु 'जलादिपूर्णभाजने ॥ २७२ ।। प्रपौत्रादौ । परात्परः परम्परः । पृषोदरादित्वात् । परम्परान्वये वधे । परिपाव्यां । परिपाट्यां यथा-तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ २६८ ॥ परिसरः पान्तभूदैवयोम तौ । परिसरन्ति अत्रेति परिसरः । पुंनाम्नीति घः । प्रान्तभुवि यथा-सद्यः पुरी परिसरेऽपि शिरीषमृद्वी । दैवं विधिः । पक्षचरो यूथभ्रष्टपृथक्चारिगजे विधौ ।। पक्षे चरति पक्षचरः । यूथभ्रष्टः सन् यः पृथक चरति गजः स तथा। विधुश्चन्द्रः ॥ २६९ ॥ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नालिकेरे । पयो धरति पयोधरः । सर्वेष्वपि यथा-अयमतिजरठाः प्रकामगुज़रलघुविलम्बिपयोधरोपरुद्धाः, सततमसुमतामगम्यरूपाः परिणितदिक्करिकास्तटी बिभर्त्ति । पात्रटीरस्त्वपव्यापारमन्त्रिणि । लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः । पात्रमटति पात्रटीरः । जम्बीरेति साधुः । लोहेन मिश्रं
कांस्यं, लोहकांस्यम् ॥ २७० ॥ पारावारः पयोराशौ। पारमावृणोति .. पारावारः । यथा-प्राप्तुं पारमपारस्य पारावारस्य पार्यते । पारावारं तटद्वये । पारं च अवारं च पारावारम् । तटद्वयं परतीरमर्वाक् तीरं च ॥२७१ ॥ पारिभद्रौ तु मन्दारनिम्बौ । पारिप्राप्ते पारं भद्रमस्य पारिभद्रः । मन्दारः सुरतरुः । पीताम्बरोऽच्युते। नटे च। पीतेऽम्बरेऽस्य पीताम्बरः । अच्युते यथा
- १ गोमेदकमणौ स्मृतः । मलयजे पूर्णपात्रं जलादि ।