________________
(३९२)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
प्रतिसरश्चभूपृष्ठे नियोज्यकरसूत्रयोः । मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने सजि ॥ २६६ ॥ कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोगणे ॥ २६७ ॥ परिवारः परिजनेऽसिकोशेऽय परम्परः।
दीर्घत्वे प्रतीकारोऽपि । समस्तुल्यः, भटो वीरः । प्रतिक्रिया, गजाग्रधावतोरपि । क्रमेण यथा-दुःप्रतिकारौ मातापितरौ । तनुते वाजिजवोल्लसत्क्व(क)शपुरः कामत्सुपर्णाग्रजप्रतिकारोपरि वेल्लदायतकरो मत्तेभविक्रीडितम् ॥ २६५ ॥ प्रतिसरश्चमपृष्टे नियोज्यकरसूत्रयोः। मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने लजि ॥ कङ्कणे । प्रतिसरति प्रतिसरः । चमूपृष्टकरसूत्रयोस्त्रिलिङ्गः । नियोज्ये प्रेष्ये, वाच्यलिङ्गः। शेषेषु तु पुंसि । चम्वाः पृष्टे पश्चाभागे यथा-प्रतिसरवंति हयारुहतरलिततरवारिकालजिह्वाग्रे । नियोज्ये यथा-प्रीत्या प्रतिसराऽस्मि ते । करसूत्रे यथा-अन्त्रैः कल्पितमङ्गलप्रतिसराः । आरक्षे गजललाटममणि यथाप्रतिसरसक्तसृणेरिव गजस्य का तस्य निर्वतिर्मनसः । मण्डने यथा-एताः कल्पितकुङ्कुमप्रतिसरा निर्यान्ति वारस्त्रियः ॥ २६६ ॥ अथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोगणे । परिक्रियतेऽनेन परिकरः । पुंनाम्नि घः (५।३।१३०)। मतान्तरेण सडभावः । परिकीर्यते वा पर्यङ्कः । पर्यस्तिका तत्र यथा-अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्यां । परिवारे यथा-तव परिकरे कान्ते नेत्थं विरोधिनि बोधिते । नगाढगात्रिकाबन्धे यथा-मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः । आरम्भे यथाममाप्येष स्तोत्रे हर निरपवादः परिकरः । गणे यथा-३मशानेष्वाक्रीडा स्मरहरपिशाचाः सहचराश्चिताभस्मालेपः स्रगपि नृकरोटी परिकरः ॥ २६७ ॥ परिवारः परिजनेऽसिकोशे । परिवारयति परिवारः । परिजने यथा-द्वयोर्यथाअसिरिव निष्परिवारः सदंशत्वं रणे प्रकाशयति । अथ परम्परः। मृगभेदे