________________
चतुर्थः काण्डः
.
(३९१)
धृतराष्ट्रो हंसपद्यां नमश्चरः खगेऽम्बुदे । . विद्याधरे समोरे च निशाचरस्तु राक्षसे ॥ २६३॥ सर्प घूके शृगाले च निशाचरी तु पांसुला । निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ २६४॥ नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने । प्रतीहारो द्वारि द्वास्थे प्रतिकारः समे भटे ॥ २६५ ॥
खः । (५।१।११३) धुर्ये वाच्यलिङ्गः । तत्र यथा-गजीनां पङ्कमग्नानां गजा एव धुरन्धराः । धृतराष्ट्रः खगे सर्प सुरान्जि क्षत्रियान्तरे । धृतं राष्ट्रं येन धृतराष्ट्रः । धृतः सन् राजते वा । डिति ब्रट् । (उ. ४४६)। क्षत्रियान्तरे यथाधृतराष्ट्रसुतेन सुत्यजाश्चिरमासाद्य नरेन्द्रसम्पदः ॥ २६२ ॥ धृतराष्ट्री इंसपद्यां । धृतं राष्ट्र यया धृतराष्ट्री । हंसपदी ओषधिः । नभश्चरः खगेऽम्बुदे । विद्याधरे समीरे च । नभसि चरति नभश्वरः । “चरेष्ट" इति टः (५।१। १३८)। विद्याधरे यथा-नभश्चरैस्तत्पदवी विववे । निशाचरस्तु राक्षसे । सप् घूके शृगाले च । निशायां चरति निशाचरः । “चरेष्ट" इति टः (५।१११३८) राक्षसे यथा-तस्मै निशाचरैश्वर्य प्रतिजज्ञे रघूद्वहः ।। २६३ ॥ निशाचरी तु पांसुला । पांसुला स्वैरिणी, तत्र यथा-राममन्मथशरेण ताडिता, दुःसहेन हृदये निशाचरी । निषद्वरः स्मरे पङ्के। निषीदति निषादत्यस्मिन् वा निषद्वरः । कु ग श द वृग्-वरट्र (उ. ४४१) क्रूरलोचने वाच्यलिङ्गः । निषद्वरी पुननिशि । टित्वान्डीः ॥ २६४ ॥ नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने । नीलमम्बरमस्य नीलाम्बरः । बलभद्रे यथा-आकृष्य कुम्भिशिरसो मुशलाहारैर्नीलाम्बरेण सरुषा कृतनामशेषः । प्रतीहारो द्वारि द्वास्थे । प्रति हियते प्रतिहारः प्रतीहारः । घञ्युपर्गस्येति वा दीर्घः (३।२।८६)। द्वास्थे यथा-जनसंमृत्सहो दक्षः प्रतीहारः स उच्यते । प्रतिहारोऽपि द्वयोर्यथा-भविष्यतः पत्युरुमा च शम्भोः, समाससाद प्रतिहारभूमिम् । प्रतिकारः समे भटे । प्रतिक्रियते प्रतिकारः,