________________
(३९०) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
देहयात्र यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः ॥ २५९ ॥ कृष्णेऽद्रौ धाराधरस्तु पयोदकरवाळयोः। धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ॥ २६० ॥ धार्तराष्ट्रः कौरवेऽहौ कृष्णास्यांघ्रिसितच्छदे । धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥२६१ ॥ पदालिकेऽप्यथ धुरन्धरो धुर्ये धवद्रुमे । धृतराष्ट्रः खगे सप्पै सुराज्ञि क्षत्रियान्तरे ॥ २६२ ॥
द्यूतकारे पुसि । त्रिष्वपि यथा-दुरोदरच्छद्मजितां समीहते, नयेन जेतुं जगती सुयोधनः ॥ २५८ ॥ देहयात्रा यमपुरी-गमने भोजनेऽपि च । देहस्य यात्रा देहयात्रा । द्वैमातुरो जरासन्धे, हेरम्बे । द्वयोर्मात्रोरपत्यं द्वैमातुरः । संख्यासंभद्रान्मातुर्मातुचेत्यण (७-१-६६) । जरासन्धे यथा-हते हिंडम्बरिपुणा राज्ञि द्वैमातुरे युधि । अथ धराधरः कृष्णेऽद्रौ । धरां धरति धराधरः ॥२५९।। कृष्णे यथा-दधतौ भुवनान्यन्तर्विलीनौ हलिवत्सलौ । आकारात्केवलं भिन्नौ धाराधरधराधरौ । अद्रौ यथा-धराधरेन्द्रं व्रततीततीरिव । धाराधरस्तु पयोदकरवालयोः। धारां धरति धाराधरः । पयोदे यथा-धाराधर वर्षति । धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले । धाराया अङ्कुरो धाराङ्कुरः । वातास्त वारिशीकरः । नासरीमग्रयानं, जलदोपलः करकः ॥ २६० ॥ धार्तराष्ट्र कौरवेऽहौ, कृष्णास्यांघ्रिसितच्छदे । धृतराष्ट्रस्यापत्यं धार्तराष्ट्रः, धृतराष्ट्र एव वा । स्वार्थेऽण् । कौरवकृष्णास्यांग्रिसितच्छदयोर्यथा-निपतन्ति धार्तराष्ट्राः कालवशान् मेदिनीपृष्टे । धुन्धुमारो गृहधृमे. नृपभेदेन्द्रगोपयोः । पदालिकेऽपि । धुन्धुमसुरं मारयति धुन्धुमारः । धूयते वा । द्वारशृङ्गारेति साधुः । (उ. ४११) ॥ पदालिकमोषधिभेदः । नृपभेदे यथा-मान्धाता धुन्धुमारश्च ।। २६१ ॥ अथ धुरन्धरो धुर्ये धवद्रुमे । धुरां धारयति धुरन्धरः, धारेर्धचेति