SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः स्याचालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे ॥ २५४ ॥ तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे । वाणिजे तुण्डिकेरी तु कर्पासो बिम्बकापि च ॥ २५५ ॥ तोयधारो जलधरे सुनिषण्णाख्यभेषजे । दशपुरं पत्तने स्यान्मुस्तायां नोवृदन्तरे || २५६ ॥ दण्डधरो यमे राज्ञि दण्डयात्रा तु दिग्गजे । संयाने वरयात्रायां दिगम्बरस्तु शङ्करे ।। २५७ ।। अन्धकारे क्षपणके स्याद्वस्त्ररहितेऽपि च । दुरोदरः पुनर्धते द्यूतकारे पणेऽपि च ।। २५८ ॥ " (३८९) 1 युगलदोलां दोलिते तालपत्रे । स्यात्तालपत्री रण्डायां । ताड्यते तालपत्री, खुरक्षुरेति साधुः । गौरादित्वाड्डीः । रण्डा विधवा स्त्री । तुङ्गभद्रो मदोत्कटे । तुङ्गश्वासौ भद्रश्च तुङ्गभद्रः । मदोत्कटो मदकलः ।। २५४ ॥ तुङ्गभद्रा नदीभेदे । तुङ्ग भद्रं यस्यां तुङ्गभद्रा । तुलाधारस्तुलागुणे, वाणिजे । तुलां धरति तुलाधारः, तुलाया गुणो रज्जुः । तुण्डिकेरी तु, कर्पासी, बिम्बिकापि च ।। तुण्ड्यते तुण्डिकेरी, जातेरादय इति साधुः । कर्पासी मनी, बिम्बिका लताभेदः ।। २५५ ।। तोयधारो जलधरे सुनिषणाख्यभेषजे । तोयं धरति तोयधारः । दशपुरं पत्तने स्यानमुस्तायां नीवृदन्तरे । दशानां पुरं दशपुरं दृश्यते वा । खुरक्षुरेति साधुः । नीवृदन्तरं देशविशेषः । तत्र पत्तने च यथा-पात्रीकुर्व्वन् दशपुरवधूनेत्र कौतूहलानां ॥ २५६ ॥ दण्डधरो यमे राज्ञि । दण्डं धरति दण्डधरः । दण्डयात्रा तु दिग्गजे । संयाने वरयात्रायाम् । दण्डाय दण्डाकारा वा यात्रा दण्डयात्रा । समुदितायां यानं संयानम् । दिगम्बरस्तु शंकरे अन्धकारे क्षपणके स्याद्वस्त्ररहितेऽपि च । दिगेवाम्बरमस्य दिगम्बरः । वस्त्ररहिते वाच्यलिङ्गः । तत्र शङ्करे च यथादिगम्बरो बहति कपालभूषणं ॥ २५७ ॥ दुरोदरः पुनर्वृते द्यूतकारे पणेऽपि च । दुष्टमासमन्तादुदरं यत्र दुरोदरः । पणो द्यूतजेयं, द्यूतपणयोः पुं क्लीबः । 1
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy