________________
(३८८) अनेकार्थसंग्रहः सटीकः : द्वितीयो विभागः
गिरिसारः पुनर्लोहे, लिङ्गे मलयपर्वते । घनसारस्तु कपूरे, दक्षिणावर्त्तपारदे ॥ २५१ ॥ चर्मकारः पादुकृति, चर्मकार्योषधीभिदि । चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि ॥ २५२ ॥ चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि । चित्राटीरो घण्टाकर्णबलिच्छागासबिन्दुभिः ॥ २५३ ॥ अङ्कितभाले चन्द्रे च, तालपत्रन्तु कुण्डले ।
विदः । धनसारस्तु कपूरे, दक्षिणावर्त्तपारदे । घन; सारो अस्य घनसारः । कर्प रे यथा- न रङ्गे चातुर्य तिरयसि न दत्तस्थपुटतां, महाघ स्वं तस्मात् किमिति धनसारं प्रथयसि । रदावद्यस्तेनैर्विभवलवलभ्यैरपि, यतो दलैस्ताम्बूलीनामवनिवलयं रञ्जितमिदम् ॥ २५१॥ चर्मकारः पादुकृति । चर्म करोति चर्मकारः । पादूकृत् उपानत्कृत्, तत्र यथा-चाणि शर्मकारणि, चर्मकारो विनिर्ममे । चर्मकार्योंषधीभिदि । अणन्तत्वाद्डीः । चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि । चक्रं धरति चक्रधरः, आयुधादिभ्यो धृगोऽदण्डादेरित्यच् । (५-१-९४) । चक्री कुलालो यांबिकश्चक्रवर्ती वा । ग्रामजाली ग्रामवृन्दभर्ता, तत्र वाच्यलिङ्गः । विष्णौ यथा-चक्रधर इति रथाङ्गमदः सत्त्वं बिभर्षि भुवनेषु रूढये ॥ २५२ ॥ चराचरं जङ्गमे स्यादिङ्गविष्टययोरपि । चरति चराचरं । चराचरेति साधुः, (४-१-१३) इङ्गमद्भुतं, तत्र जङ्गमे च वाच्यलिङ्गः । जङ्गमे यथा-उच्चकैश्च सचराचरकीर्त्तिः । विष्टपे यथा-जयेन कश्चिद्विरमेदयं रणात् भवेदपि स्वस्ति चराचराय वा । चित्राटीरो घण्टाकर्णबलिच्छागात्रबिन्दुभिः। अङ्कितभाले चन्द्रे च । चत्रं चित्रां वाऽरति चित्राटीरः । जम्बीराभीरेति साधुः । (उ. ४२२) । घण्टाकर्णो यक्षस्तस्य बलिनिमित्तं यो हतच्छागस्तस्यास्त्र रक्तं तस्य बिन्दवस्तैरङ्कितं भालं येन तस्मिन्नित्यर्थः ॥२५३॥ तालपत्रन्तु कुण्डले । तालस्य पत्रं पत्रमिव वा तालपत्रं । यथा-श्रवण